सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 637, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 637

५८६ कथासरित्सागर
स्थित्वा च कञ्चित्काल स गर्भभारे तया धृते।
जगाम पुनरागन्तुं तं महाव्रतिन प्रति॥२१८॥
शशंस च यथावृत्तं स तस्मै सभयं ततः।
सोऽप्येवमात्मसिद्धयर्थी जगादैनं महाव्रती॥२१९॥
भद्र! साधु कृतं किं तु गत्वास्या यक्षयोषितः।
विपाट्योदरमाकृष्य शीघ्रं गर्भं तमानय॥२२०॥
इत्युक्त्वा स्मारयित्वा च व्रतिना पूर्वसङ्गरम्¹।
प्रेषितस्तेन भूयस्तां देवदत्तोऽप्यगात् प्रियाम्॥२२१॥
तत्र तिष्ठति यावच्च तद्विभावनदुर्मनाः।
तावद् विद्युत्प्रभा सा तं यक्षी स्वयमभाषत॥२२२॥
आर्यपुत्र ! विषण्णोऽसि किमर्थं विदितं मया।
आदिष्टं जारुपादेन सन्न मद्गर्भपाटनम्॥२२३॥
तदुद्गर्भमेतमाकर्षं पाटयित्वा ममोदरम्।
न चेत् स्वयं करोम्येतत्कार्यं ह्यस्त्यत्र किञ्चन॥२२४॥
एव तयोक्त स यदा कर्तुं तन्नाशकद् द्विजः।
तदाकृष्टवती गर्भं सा स्वयं पाटितोदरा॥२२५॥
तं च कृच्छ्रं पुरस्कृत्यस्त्वा देवदत्तं तमभ्यधात्।
भोक्तुर्विद्याधरत्वस्य कारणं गृह्यतामयम्॥२२६॥
अहं च शापाद्यक्षीत्वे जाता विद्याधरी सती।
अयमीवृक्ष शापान्तो मम जातिस्मरा ह्यहम्॥२२७॥
इदानीं यामि धाम एवं सङ्गमश्चावयोः पुनः।
तत्रैवेत्यभिधायैषा क्वापि विद्युत्प्रभा ययौ॥२२८॥
देवदत्तोऽपि तं गर्भं गृहीत्वा खिन्नमानसः।
जगाम जारुपादस्य सस्य स व्रतिनोऽन्तिकम्॥२२९॥
उपानयच्च तं गर्भं तस्मै सिद्धिप्रदायिनम्।
भजन्त्यारम्भमरित्वा हि दुर्लभंऽपि न साधकः॥२३०॥
सोऽपि तत्पाचयित्वैव गर्भमांसं महाव्रती।
व्यमुञ्चद्वदतं तं भैरवाङ्गाहतञ्जबीम्॥२३१॥
ततो दप्तवस्त्रियाविदेत्य पश्यति स द्विजः।
तावन्मांसमशेषं तद् व्रतिना तेन भक्षितम्॥२३२॥


१ महासाहसं कार्यमिति पूर्वप्रतिज्ञाम्।