कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 635, कुल 876 में से
संदर्भ में पढ़ें५८४ कथासरित्सागर
इत्युक्तो व्रतिना तेन प्रतिश्रुत्य १ तथेति तत्।
स देवदत्तस्तत्पार्श्वे सदैव स्थितिमग्रहीत् ॥२०४॥
अन्येद्युश्च श्मशानान्ते गत्वा वटतरोरधः।
विधाय रजनीं पूजां परमान्नं निवेद्य च॥२ ५॥
बलीन्दिक्षु च विक्षिप्य सम्पादिततदर्चनः।
तं पार्श्ववर्तिनं विप्रमुवाच स महाव्रती ॥२ ६॥
एवमेव त्वया कार्यमिह प्रत्यहमर्चनम्।
विद्युत्प्रभे गृहाणेमां पूजामित्यभिधायिना ॥२०७॥
अतः परं न जानेऽहं सिद्धिस्त्वैव ध्रुवावयोः।
इत्युक्त्वा स ययौ तेन समं स्वनिलयं व्रती ॥२०८॥
सोऽपि नित्यं तरोस्तस्य मूलं गत्वा समर्च तत्।
देवदत्तोऽर्चनं चक्रे तथैव विधिना ततः ॥२०९॥
एकदा च सपर्यान्ते द्विधाभूतात्तरोस्ततः।
अकस्मात्पश्यतस्तस्य दिव्या नारी विनिर्ययौ ॥२१ ॥
एह्यस्मत्स्वामिनी भद्र ! वक्ति त्वामिति वादिनी।
सा तं प्रवेशयामास तस्यैवाभ्यन्तरं तरोः ॥२११॥
स प्रविश्य ददर्शात्र दिव्यां मणिमयं गृहम्।
पर्यङ्कवर्त्तिनीमेकां तत्र चान्तर्वरस्त्रियम् ॥२१२॥
रूपिणी सिद्धिरस्माकमियं स्यादिति स क्षणात्।
यावद्व्यवस्यति तावत्सा कृतातिथ्या वराङ्गना ॥२१३॥
रणिताभरणैरङ्गैर्विहितस्वागतैरिव ।
उत्थाय निजपर्यङ्के तमुपावेशयत् स्वयम् ॥२१४॥
जगाद च महाभाग ! सुता यक्षपतेरहम्।
कन्या हि रत्नवर्यस्य ख्याता विद्युत्प्रभाख्यया ॥२१५॥
आराधयच्च मामेष बालपादो महाव्रती।
यस्यार्थसिद्धिर्देवास्मि त्वं प्राणेष्वपि मे प्रभुः ॥२१६॥
तस्माद् दृष्टानुरागिण्याः कुरु पाणिग्रहं मम।
इत्युक्तः स तया चक्रे देवदत्तस्तथेति तत् ॥२१७॥
१ स्वीकृत्येति भावः
२ परमान्नं तु पायसम् इत्यमरः।