सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 631, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 631

५८ कथासरित्सागर
प्रजहार च दृष्ट्वैव तस्मिन्नीरेऽभिधावति।
पलाय्य व्रणित सोऽपि वराहः प्राविशद् बिलम् ॥१७५॥
शक्तिदेवोऽपि तत्रैव तदन्वपी प्रविश्य च।
क्षणादपश्यत् सावासमुद्यानगहनं महत् ॥१७६॥
तत्रस्थश्च ददर्शासौ कन्यामत्यमृताकृतिम्।
ससम्भ्रममुपायातां प्रीत्येव वनदेवताम् ॥१७७॥
तामपृच्छच्च कस्यासि ! का त्वं किं सम्भ्रमश्च ते।
तच्छ्रुत्वा सापि सुमुखी तमवं प्रत्यभाषत ॥१७८॥
अस्ति दक्षिणविछनायो नृपतिश्चण्डविक्रमः।
तस्याहं विन्दुरेखाख्या सुता सुभगकन्यका ॥१७९॥
इहाकस्माच्च पापो मां दैत्यो ज्वलितलोचनः।
अपहृत्य च्छलेनाद्य पितुरानीतवान् गृहात् ॥१८०॥
स चामिषार्थी वाराहं रूपं कृत्वा बहिर्गतः।
विद्धोऽद्य क्षुधार्त्तः सन् शक्त्या वीरेण केनचित् ॥१८१॥
विद्धमात्रं प्रविश्येह पञ्चत्वमागतश्च सः।
तद्वधूतितकौमारा पश्चाद्बाह्य च निर्गता ॥१८२॥
तच्छ्रुत्वा शक्तिदेवस्तामूचे कस्तर्हि सम्भ्रमः।
मयैव स वराहो हि हत शक्त्या नृपात्मजे ॥१८३॥
तत साप्यवदत्तर्हि ब्रूहि मे को भवानिति।
विप्रोऽहं शक्तिदेवाख्य इति प्रत्यब्रवीच्च सः ॥१८४॥
सहि त्वमेव मे भर्तेत्युचितं स तया वृतः।
ततस्यादाय तां धीरो बिलद्वारेण निर्ययौ ॥१८५॥
गृहं गत्वा च भार्यायै बिन्दुमत्यै निवेद्य तत्।
तच्छङ्कितं कुमारीं तां बिन्दुरेखामुपोढवान् ॥१८६॥
ततस्तस्य द्विभार्यस्य शक्तिदेवस्य तिष्ठतः।
तत्रैका बिन्दुरेखा सा भार्या गर्भमधारयत् ॥१८७॥
अष्टमे गर्भमासे च तस्या स्वैरमुपेत्य तम्।
आद्या बिन्दुमती भार्या शक्तिदेवमुवाच सा ॥१८८॥
वीर ! तत्स्मर यन्मह्यं प्रतिश्रुतमभूत्त्वया।
सोऽयं द्वितीयभार्याया गर्भमासोऽष्टमस्तव ॥१८९॥