सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 629, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 629

५७८ कथासरित्सागर

सम्प्रहृष्टा साप्यवादात्तं पतिं बिन्दुमती तदा ।
अचिन्त्यमार्यपुत्रैतत्पापमत्र किमुच्यते ॥ १६०॥
अहं गवां प्रभावेण स्वल्पादप्यपराध्यतः ॥
जाता दाशकुलेऽमुष्मिन् का स्वेतस्यात्र निष्कृतिः ॥ १६१॥
एवमुक्तवतीमेव शक्तिदेवो जगाद ताम्।
चित्रं ब्रूहि प्रिये ! का त्वं दाशजन्म कथं च ते ॥ १६२॥
अभिनिर्बध्यतश्चैवं पृच्छन्तं तमुवाच सा।
वदामि गोप्यमप्येतद् वचनं मे करोषि चेत् ॥ १६३॥
बाढं प्रिये ! करोमीति तेनोक्ते सपथोत्तरम्।
सा सर्वं जगादेदमादौ तावत् समीहितम् ॥ १६४॥
बिन्दुमती कथा
अस्मिन् द्वीपे द्वितीयापि भार्या ते भविताधुना।
सा चार्यपुत्र न चिरादमृतगर्भा भविष्यति ॥ १६५॥
अष्टमे गर्भमासे च पाटयित्वोदरं त्वया।
तस्याः स गर्भः क्रष्टव्यो नैव कार्या घृणात्र च ॥ १६६॥
एवमुक्तवती तस्मिन् किमेतदिति विस्मिते।
ससद्गुणे च भूयः सा दाशेन्द्रतनयाब्रवीत् ॥ १६७॥
इत्येतत्तव कर्तव्यं हेतोः कस्यापि मद्बचः।
अथेदं शृणु या चाहं दाशजन्म यथा च मे ॥ १६८॥
अहं जन्मान्तरेऽभूवं कापि विद्याधरी पुरा।
महर्षेस्तोक्ते च शापेन परिभ्रष्टास्मि साम्प्रतम् ॥ १६९॥
विद्याधरत्वे च यदा छित्त्वा दन्तैरयोजयम्।
वीणासु तन्त्रीस्तेनेह जाताहं दाशवेश्मनि ॥ १७०॥
तदेवं वदने स्पृष्टे शुक्रेण स्नायुना गवाम्।
ईदृश्यधोगतिः का तु वार्ता तन्मांसभक्षणे ॥ १७१॥
इत्येवं कथयन्त्यां च तत्र तस्यां ससम्भ्रमम्।
एकोऽभ्युपेत्य तद् भ्राता शक्तिदेवमभाषत ॥ १७२॥
उत्तिष्ठ सुमहानेष कुतोप्युत्थाय सूकरः।
हतानेकजनो दर्पादितोऽभिमुखमागतः ॥ १७३॥
तच्छ्रुत्वा साञ्जवीर्येश्च गत्वेव स स्वहर्म्यतः।
मारुह्य शक्तिहस्तोऽश्वमपावृतपुरं प्रति ॥ १७४॥