कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 597, कुल 876 में से
संदर्भ में पढ़ें५५ कथासरित्सागर
एव विजयदत्तस्य वक्षः परिरभ्य सः ।
यावत्क्षालयतीबाङ्गं राक्षसीभावरूपितम् ॥२५७॥
अशोकदत्तो बाष्पाम्बुपूरैस्तावदबातरत् ।
प्रज्ञाजिकौशिको नाम विद्याधरगुरुर्द्विवः ॥२५८॥
स तौ डाक्यूपयेत्यैव भ्रातरौ गुरुरब्रवीत् ।
यूयं विद्याधराः सर्वे शापादतां दशां गताः ॥२५९॥
अधुना च स शापो वः सर्वेषां क्षान्तिमागतः ।
तद्गृहीत निजा विद्या बन्धुसाधारणीरिमाः ॥२६०॥
व्रजतं च निजं धाम स्वीकृतस्वजनौ युवाम् ।
इत्युक्त्वा दत्तविद्योऽसौ सयार्धामुनयो गुरुः ॥२६१॥
तौ च विद्याधरीभूतौ प्रबुद्धौ जग्मतुस्ततः ।
व्योम्ना तद्धिमवच्छृङ्गं गृहीतकनकाम्बुजौ ॥२६२॥
तत्र बाधोकदत्तस्तां रक्षःपतिसुतां प्रियाम् ।
उपागात् साप्यभूत्क्षीणशापा विद्याधरी तदा ॥२६३॥
तया च साकं सुवृक्षा भ्रातरौ तावुभावपि ।
वाराणसीं प्रयततुः क्षणाद्गगनगामिनी ॥२६४॥
तत्र चोपेत्य पितरौ विप्रयोगाग्निसंतापितौ ।
निर्वापयन्ता सद्यो दर्शनामृतवर्षिणौ ॥२६५॥
अदेहभेदेऽप्यापन्नन्तधिब्रजमान्तरौ च तौ ।
न पित्रोरेव लोकस्याप्युत्सवाय बभूवतुः ॥२६६॥
चिराद् विजयदत्तश्च गाडमालिङ्ग्यतः पितुः ।
भुजमभ्यमिवार्यर्थं मनोरथमपूरयत् ॥२६७॥
सतस्तत्रैव तद्बुद्ध्वा प्रतापमुकुटोऽपि सः ॥
अमोघदत्तश्वशुरो राजा हर्षादुपागमौ ॥२६८॥
: तत्सत्कृतश्च तद्राजधानीं सोत्कण्ठितप्रियाम् ।
मगोकदत्त स्वजने सार्धं बद्धोत्सवामगात् ॥२६९॥
ददौ च कनकाब्जानि राज्ञ तस्मै बहूनि सः ।
सभ्यर्थिताधिकप्राप्तिहृष्टः सोऽप्यभवन्नृपः ॥२७०॥
ततो विजयदत्तं च सर्वैश्चत्र स्थितेषु च ।
पिता पप्रच्छ गोविन्दस्वामी साश्चर्यकौतुकः ॥२७१॥