कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 59, कुल 876 में से
संदर्भ में पढ़ें२६ कथासरित्सागर
तत्र चाधीतविद्यास्ते प्रयोऽप्याशाम्बुधौ सिता ।
ययु स्वामिकुमारस्य दर्शने दक्षिणापथम् ॥८॥
तत्र ते चिञ्चिनीं नाम नगरीमम्बुधेस्तटे ।
गत्वा भोजिकसञ्ज्ञस्य विप्रस्य न्यवसन्गृहे ॥९॥
स च कन्या निजास्तिस्रस्तेभ्यो दत्त्वा धनानि च ।
तपसेऽन्यसन्तानो गङ्गा याति स्म भोजिकः ॥१० ॥
अथ तेषां निवसतां तत्र श्वशुरवेश्मनि ।
अवग्रहकृतस्तीव्रो दुर्भिक्ष समजायत ॥११॥
तेन भार्या परित्यज्य साध्वीस्तास्ते त्रयो ययुः ।
स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः ॥१२॥
सतस्तु मध्यमा तासां सगर्भामूत्ततश्च ताः ।
भवनं यज्ञदत्तस्य पितृमित्रस्य शिश्रियुः ॥१३॥
तत्र तत्तूर्णिमार्भवन्त्यान्य क्लिष्टवृत्तयः ।
आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥१४॥
कालेन मध्यमा चात्र तासां पुत्रमसूत सा ।
अन्योन्यातिशयात्तस्मिन्स्नेहस्तासामबर्धत ॥१५॥
कदाचिद् व्योममार्गेण विहरन्तं महेश्वरम् ।
अङ्कस्था स्कन्दजननी तं दृष्ट्वा सद्यावदत् ॥१६॥
देव ! पश्य क्षिप्तांरस्मिन्नेवास्तिस्रोऽपि योषितः ।
यत्स्नेहा दधतमाशामेषोऽस्माञ्जीवयिष्यतीति ॥१७॥
तत्तथा कुरु येनायमेता बालोऽपि जीवयेत् ।
इत्युक्तः प्रियया देवो वरदः स जगाद ताम् ॥१८॥
अनुगृह्णाम्यमू पूर्वं सभार्थेणामुना भृतः ।
आराधितोऽस्मि तेनायं भोगाथै निर्मितो भुवि ॥१९॥
एतन्नाम्ना च सा याता पाटली नाम भूपतेः ।
महेन्द्रवर्मणः पुत्री भार्यास्यैव भविष्यति ॥२० ॥
इत्युक्त्वा स विभुः स्वप्ने साध्वीस्तिस्रो जगाद ताः ।
नाम्ना पुत्रक एवाय युष्माकं बालपुत्रकः ॥२१॥
मस्य सुप्तप्रबुद्धस्य शीर्षान्त च दिने दिने।
सुवर्णलक्ष भविता राजा चायं भविष्यति ॥२२॥