सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 583, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 583

५३६ कथासरित्सागर
नष्टां विचिन्तयन्पश्यन्हस्ते दिव्यं च नूपुरम्।
सविस्मयः साभितापः सहर्षश्च बभूव सः॥१५४॥
ततः श्मशानतस्तस्मात्स जगामात्तनूपुरः।
निजगेहं प्रभाते च स्नातो राजकुलं ययौ॥१५५॥
किं तस्य शूलविद्धस्य वृत्तं वार्तेति पृच्छते।
राज्ञे स च समेत्योक्त्वा तं नूपुरमुपानयत्॥१५६॥
एतत्कुत इति स्वैरं पृष्टस्तेन स भूभृता।
तस्मै स्वरात्रिवृत्तान्तं शशंसामृतमीषजम्॥१५७॥
सतश्चानन्यसामान्यं सत्त्वं तस्यावधाय सः।
तुष्टोऽप्यन्यगुणोत्कर्षात्सुतोष सुतरां नृपः॥१५८॥
गृहीत्वा नूपुरं स च गत्वा देव्यै ददौ स्वयम्।
दृष्टस्तत्प्राप्तिवृत्तान्तं तस्यै च समवर्णयत्॥१५९॥
सा तद्बुद्ध्वा च दृष्ट्वा च तं दिव्यं मणिनूपुरम्।
अशोकदत्तलाभैकतत्परा मुमुदे रहः॥१६०॥
ततो जगाद तां राजा देवी जात्यैव विद्यया।
सत्त्वेन च रूपेण महतामप्ययं महान्॥१६१॥
अशोकदत्तो भव्याया भर्ता च दुहितुर्यदि।
भवेन्मदनलेखायास्तद्भद्रमिति मे मतिः॥१६२॥
वरस्यामी गुणाः प्रेक्ष्या न लक्ष्मीः क्षणभङ्गिनी।
तदेतस्मै प्रवीराय वदाम्येतां सुतामहम्॥१६३॥
इति भर्तुर्वचः श्रुत्वा देवी सा सादराऽब्रवीत्।
युक्तमेतदसौ ह्यस्या युवा भर्तानुरूपतः॥१६४॥
सा च तेन मधुस्नानदृष्टेन हृतमानसा।
शून्याशया दिनेष्वेषु न शृणोति न पश्यति॥१६५॥
रात्रौ सौधे च तद्बुद्ध्वा मञ्चिस्ताहं निशाक्षये।
सुप्ता जागे स्त्रिया स्वप्ने कयाप्युक्तारिम दिव्यया॥१६६॥
वत्से मदनलेखेयं देयान्यस्मै न कस्यचित्।
एषा ह्यशोकदत्तस्य भार्या जन्मान्तरार्जिता॥१६७॥
तच्च श्रुत्वा प्रबुध्यैव गत्वा प्रत्यूष एव च।
स्वयं तत्प्रत्ययाद् वत्सां समादवामितस्त्यहम्॥१६८॥