कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 577, कुल 876 में से
संदर्भ में पढ़ें५३० | कथासरित्सागर
तत्पिता सोऽपि गोविन्दस्वामी हा पुत्र ! हा गुणिन् ।
हा हा विजयदत्तेति मुक्ताक्रन्दस्ततो ययौ ॥११०॥
एत्य चण्डीगृहं तच्च प्रातं पश्यन् मृताय च ।
श्यायसेऽशोकदत्ताय यथावृत्तं शशंस सः ॥१११॥
ततस्ताभ्यो सहान्विष्युदापात्तारणम् ।
तथा शोकान्नगवदामाजगाम न तापसः ॥११२॥
यथा वाराणसीसंस्थो देवीसन्दर्शनागतः ।
तत्रोपेत्य जनोऽप्यन्यो ययौ तत्समदुःखताम् ॥११३॥
तावच्च देवी पूजायामागत्यैको महावणिक् ।
अपश्यत्तं गोविन्दस्वामिनं तं तथाविधम् ॥११४॥
समुद्रदत्तनामासावुपेत्याश्वास्य च द्विजम् ।
तत्रैव स्वगृहं साधुर्निनाय सपरिच्छदम् ॥११५॥
स्नानादिनोपचारैण सत्र चैनमुपाचरत् ।
निसर्गो ह्येष महतां यदापन्नानुकम्पनम् ॥११६॥
सोऽपि जग्राह गोविन्दस्वामी पत्न्या समं धृतिम् ।
महाप्रतिश्रव श्रुत्वा जानानश्च सुतसङ्गमम् ॥११७॥
ततः प्रभृति चैतस्यां वाराणस्यामुवास सः ।
अभ्यर्चितो महाहृद्यस्य तस्यैव वणिजो गृहे ॥११८॥
तत्रैकाधीतविद्योऽस्य स सुतं प्राप्तयोवनः ।
द्वितीयोऽशोकदत्ताख्यो बाहुयुद्ध'मशिक्षत ॥११९॥
क्रमेण च ययौ तत्र प्रकर्षं स तथा यथा ।
अजीयत न केनापि प्रतिमल्लेन भूतले ॥१२०॥
एकदा देवयात्रायां तत्र मल्लसमागमे ।
जगामैको महामल्लः ख्यातिमान् दक्षिणापथात् ॥१२१॥
तेनात्र निखिला मल्ला राज्ञो वाराणसीपतेः ।
प्रतापमुकुटाख्यस्य पुरतोऽन्ये पराजिताः ॥१२२॥
ततः स राजा मल्लस्य युद्धं तस्य समादिशत् ।
आनाय्याशोकदत्तं च श्रुतं तस्माद् वणिग्वरात् ॥१२३॥
१ मल्लयुद्धम्; कुश्तीति भाषायाम् ।