कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 573, कुल 876 में से
संदर्भ में पढ़ेंगच्छंश्च मार्गे जटिलं भस्मपाण्डुं कपालिनम्।
सार्धचन्द्रमिवेशानं महाव्रतिनमक्षत॥८१॥
उपेत्य ज्ञानिनं तं च नत्वा स्नेहेन पुत्रयोः।
शुभाशुभं स पप्रच्छ सोऽप्य योगी जगाद तम्॥८२॥
पुत्रौ त भाविकल्याणौ किं स्वनेन कनीयसा।
ब्रह्मन्विजयदत्तेन वियोगस्ते भविष्यति॥८३॥
ततोऽन्याशोकदत्तस्य द्वितीयस्य प्रभावतः।
एतेन सह युष्माकं भूयो भावी समागमः॥८४॥
इत्युक्तस्तेन गोविन्दस्वामी स ज्ञानिना सदा।
मुमुचुः साद्भुताश्चान्तस्तमामन्त्र्य ततो ययौ॥८५॥
प्राप्य वाराणस्रीं तां च तद्वाह्ये चण्डिकागृहे।
न्नि तत्प्रातिषेन्नाम देवीपूजादिकर्मणा॥८६॥
भाया च तत्रैव बहिः सकुडुम्बस्तरास्तलम्।
समावसद कार्पटिकः सोऽन्यदेशागतैः सह॥८७॥
रात्रौ च तत्र सुप्तेषु सर्वेष्वधिगताध्वसु।
श्रान्तेष्वास्तीर्णपर्णादिपान्थशय्यानिपातिषु ॥८८॥
तदीयस्य विबुद्धस्य तस्याकस्मात्कनीयसः।
सूनोर्विजयदत्तस्य महान् शीतज्वरोऽजनि॥८९॥
स तमं सहसा भावि बन्धुविश्लेषहेतुना।
भयेनेव ज्वरेणाभूदूर्ध्वरोमा सबाष्पयुः॥९०॥
शीतातंश्च प्रबोध्यैव पितरं स्वमवाच तम्।
बाधत तात तीव्रो मामिह शीतज्वरोऽधुना॥९१॥
तन्मे समिधमानीय शीतघ्नं ज्वलयानलम्।
नान्यथा मम शास्तिः स्यान्नयय न च यामिनीम्॥९२॥
तच्छ्रुत्वा तं स गोविन्दस्वामी तद्वेदनाकुलः।
तावत्कुतोऽधुना वह्निर्वत्सेति च समन्यथात्॥९३॥
नन्वयं निकटे तात पश्यत्यग्निर्ज्वलन्नितः।
भूमिष्ठेऽत्रव तद्गत्वा किं नाङ्गं तापयाम्यहम्॥९४॥
तस्मात् सकम्पं हस्ते मां गृहीत्वा प्रापय द्रुतम्।
इत्युक्तस्तेन पुत्रेण पुनर्विप्रोऽपि सोऽब्रवीत्॥९५॥