कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 571, कुल 876 में से
संदर्भ में पढ़ें५२४ कथासरित्सागर
अहं च बाल्य एव प्राक्तस्माद्देशादिहागतः ॥६७॥
तदिहस्वास्व न चिरात् साधयिष्यसि चात्र ते ।
इष्टं द्वीपान्तरगच्छद्वणिक्कणपरम्परा ॥६८॥
इत्युक्त्वानयमावेशं विष्णुदत्तो यथोचितम् ।
तं शक्तिदेवं तत्कारमुपचारमथाचरत् ॥६९॥
शक्तिदेवोऽपि सम्प्राप्य विस्मृताध्वक्लमो मुदम् ।
विदधे वायुलाभो हि मराब्मुसनिर्मंरः ॥७०॥
अमन्यत च निजाभीष्टसिद्धिमप्यनवर्तिनीम् ।
अन्तरापाति हि श्रेयः कार्यसम्पत्तिसूचकम् ॥७१॥
ततो रात्रावनिद्रस्य शयनीयं निपेयुषः ।
अभिवाञ्छितसम्प्राप्तिगतचित्तस्य तस्य सः ॥७२॥
शक्तिदेवस्य पार्श्वस्थो विष्णुदत्तः समथनम् ।
विनोदपूर्वकं कुर्वन्कथां कथितवानिमाम् ॥७३॥
अशोकदत्तस्य कपालस्फोटराक्षसाधिपतेश्च कथा
पुरामूत् सुमहाविप्रो गोविन्दस्वामिसंज्ञकः ।
महाप्रहारे कालिन्द्या उपकण्ठनिवेशिनि ॥७४॥
जायेते स्म च तस्य द्वौ सदृशौ गुणशालिनः ।
अशोकदत्तो विजयदत्तश्चेति सुतौ क्रमात् ॥७५॥
कालेन तत्र वसतां तेषामजनि दारुणम् ।
दुर्भिक्षं तत्र गोविन्दस्वामी भार्यामुवाच सः ॥७६॥
अयं दुर्भिक्षदोषेण देशस्तावद् विनाशितः ।
तन्न शक्नोम्यहं द्रष्टुं सुहृद्बान्धवदुर्गतिम् ॥७७॥
दीयतां च कियत् कस्य तस्मादन्नं यदस्ति नः ।
तद्गृह्या मित्रबन्धुभ्यां व्रजामो विषयादितः ॥७८॥
वाराणसीं च मासाय सकुडुम्बा धयामहे ।
इत्युक्तया सोऽनुमतो भार्ययाऽस्मदाशिजम् ॥७९॥
सदारसुतभृत्यश्च स देशात्प्रययौ ततः ।
उत्सहन्ते न हि । द्रष्टमुत्तमाः स्वजनापदम् ॥८०॥