सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 57, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 57

२४ कथासरित्सागर
किमपि तदवलोक्य तत्र चित्रं
प्रमदवशान्न परं तषोपवर्षं ।
अपि विततमहोत्सवं समग्रं
समजनि पाटलिपुत्रपौरलोकः ॥८२॥
राजापि स गिरिशसूनुवरप्रभाव-
मालोक्य तस्य परितोषमुपेत्य नन्दः ।
वर्षस्य वेश्म वसुभिः स किरादरेण
सत्कारमेव समपूरयदुन्नतधीः ॥८३॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके
द्वितीयस्तरङ्गः ।

तृतीयस्तरङ्गः
एवमुक्त्वा वररुचिं शृण्वत्येकाग्रमानसे ।
काणभूती वने तत्र पुनरेवेदमब्रवीत् ॥१॥
कदाचिदति कालस्य कृते स्वाध्यायकर्मणि ।
इति वर्षं उपाध्यायः पृष्ठोऽस्माभिः कृताह्निकः ॥२॥
इदमेवविधं कस्माद्भरं क्षेभतां गतम् ।
सरस्वत्याश्च लक्ष्म्याश्च तदुपाध्याय ! कथ्यताम् ॥३॥
तच्छ्रुत्वा सोऽब्रवीदस्माञ्छृणु चैतत्कथामिमाम् ।
तीर्थं कनखलं^१ नाम गङ्गाद्वार^२स्ति पावनम् ॥४॥
मत्र काञ्चनपातन जाह्नवी देवदन्तिना ।
उशीनरगिरिग्रन्थाद् भित्वा समवतारिता ॥५॥
दाक्षिणात्यो द्विजः कश्चित्तपस्यन्भार्यया सह ।
तत्रासीत्तस्य चान्वेव जायन्ते स्म त्रयः सुताः ॥६॥
कालेन स्वर्गते तस्मिन् समाये च च तत्सुताः ।
स्थानं राजगृहं^३ नाम जग्मुर्विद्याजनेच्छया ॥७॥

१ हरद्वारसमीपे कनखलं तीर्थ प्रसिद्धं यत्र दक्षप्रजापतिना यज्ञोऽनुष्ठित इति ख्यातम् ।
२ गङ्गाद्वारमिदानीं हरद्वारेति प्रसिद्धम् । ३ राजगृहं साम्प्रतं बिहारप्रान्ते 'राजगिर' नाम्ना
प्रसिद्धं स्थानमस्ति ।