सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 563, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 563

स्वच्छन्दोच्छलदुद्दाममहामरुमरीचिभिः ।
भिगीषन्त्यामिवात्यूष्मव्याप्येव तेजांसि भास्वतः ॥९॥
जलसङ्गतिहीनायामप्यहो सुरुभापवि ।
सततोल्लङ्घ्यमानायामपि दूरीभवद्भुवि ॥१०॥
दिवसैर्बूरमध्वानमतिक्रम्य ददर्श सः ।
एकान्ते शीतलस्वच्छसलिलं सुमहत्सरः ॥११॥
पुण्डरीकोत्थितच्छत्रं प्रोल्लसद्धंसचामरम् ।
कुर्वन्तमिव सर्वेषां सरसामधिराजताम् ॥१२॥
तस्मिन्स्नानादिकं कृत्वा च तत्पार्श्वे पुनरुत्तरे ।
अपश्यदाश्रमपदं सफलस्निग्धपादपम् ॥१३॥
तत्राश्वत्थतरोर्मूले निषण्णं तापसंवृतम् ।
स सूर्यतपसं नाम स्थविरं मुनिमक्षत ॥१४॥
स्ववयोऽब्दशतग्रन्थिसङ्ख्येवाक्षमालया ।
जराधवलकर्णाग्रसस्थियिया विराजितम् ॥१५॥
प्रणामपूर्वकं तं च मुनिमभ्याजगाम सः ।
तेनाप्यतिथिसत्कारैर्मुनिना सोऽभ्यनन्द्यत ॥१६॥
अपृच्छ्यत च तेनैव सविभज्य फलादिभिः ।
कुत प्राप्तोऽसि गन्तासि क्व च मद्गोच्यतामिति ॥१७॥
वर्धमानपुरात्तावद् भगवन्नहमागतः ।
गन्तुं प्रवृत्तः कनकपुरीमस्मि प्रतिज्ञया ॥१८॥
न जाने क्व भवेत्सा तु भगवान्वस्तु वेत्ति चेत् ।
इति तं शक्तिदेवोऽपि स प्राज्ञो मुनिमभ्यधात् ॥१९॥
वत्स ! वर्षशतान्यष्टौ ममाश्रमपदे त्विह ।
व्यतिक्रान्तानि न च सा श्रुतापि नगरी मया ॥२०॥
इति सेनापि मुनिना गदितः स विषादवान् ।
पुनरेवाब्रवीत्तर्हि मृतोऽस्मि क्षमो भ्रमन्विह ॥२१॥
ततः श्रमण शान्तार्थं स मुनिस्तमभाषत ।
यदि ते निष्प्रपस्तर्हि यदहं वच्मि तत्कुरु ॥२२॥
अस्ति काम्पिल्यविषयो योजनानां शतद्वितः ।
त्रिषु तत्रोत्तरास्यादौ गिरिरस्त्यपि मध्यमः ॥२३॥