कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 561, कुल 876 में से
संदर्भ में पढ़ें५१४ कथासरित्सागर
तच्छ्रुत्वा दृढनिश्चयां विगणयञ्जातिस्मरां तां सुताम्
नास्याश्चायमभीष्टमर्थघटने पश्यन्नुपायक्रमम्।
देशे सत्र ततः प्रभृत्यनुदिनं प्रष्टुं नवागन्तुकान्।
भूयो भूमिपतिः स नित्यपटहप्रोद्घोषणामादिशत् ॥२१२॥
‘यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान्सोऽभिधत्तां
तस्मै राजा किल स्वां वितरति तनयां यौवराज्येन साकम्’ ।
सर्वत्राघोष्यतैव पुनरपि पटहानन्तरं नाप दास्य
श्च त्वेकः कोऽपि साक्षात्कृतकनकपुरीदर्शनो लभ्यते स्म॥२१३॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
चतुर्दारिकालम्बके प्रथमस्तरङ्गः।
द्वितीयस्तरङ्गः
कनकपुरीदर्शनार्थं शक्तिदेवस्य प्रस्थानम्
अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः।
अचिन्तयदभिप्रतराजकन्यावमानितः ॥१॥
मयेह मिथ्याकनकपुरीदर्शनवादिना।
विमानना परं प्राप्ता न त्वसौ राजकन्यका॥२॥
तदेतत्प्राप्तये तावद् भ्रमणीया मही मया।
यावत्सा नगरी दृष्टा प्राणैरपि गतैर्मम॥३॥
तां हि दृष्ट्वा पुरीमस्य तत्पणोपार्जितां न चेत्।
रुन्धेय राजतनयामहं किं जीवितेन तत् ॥४॥
एवं कृतप्रतिज्ञः सन् वर्धमानपुरात्ततः।
दक्षिणां दिशमारभ्य स प्रतस्थे स ततो द्विजः ॥५॥
क्रमञ्च गच्छंश्च प्राप गोव्यं विन्ध्यमहाटवीम्।
विवेश च निजां वाञ्छामिव तां गहनायताम् ॥६॥
तस्यां च मारुताधूतमुदुपाञ्चत्पल्लवैः।
वीजयन्त्यामिवात्मानं तज्जमश्रकरोस्तरः ॥७॥
भूरिखोरपशभूतिदुःखान्दि दिवानिशम् ।
श्रोदन्यो तीव्रमद्वान्द्रिह्व्यमानमृपारवः ॥८॥