सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 551, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 551

कृत्तोद्वाहं तृतीयेऽह्नि प्रतिगृह्णन्ते न सम्।
निनाय व्याजमन्दस्य¹ माधवस्य ततोऽन्तिकम् ॥१६२॥
अतथ्यैतपसं वन्दे स्वामित्यवितथं वदन्।
माधवोऽप्यपतत्तस्य शिवस्योत्थाय पादयोः ॥१६३॥
ददौ च तस्य विधिवत् कोषागारादाहृतम्।
भूरिकृत्रिममाणिक्यमयाभरणभाण्डकम् ॥१६४॥
शिवोऽपि प्रतिगृह्यैतत्तस्य हस्ते पुरोधसः।
नाहं वेद्मि त्वमेवैतद् वेत्सीत्युक्त्वा समर्पयत् ॥१६५॥
अङ्गीकृतमिदं पूर्वं मया चिन्ता तवात्र का।
इत्युक्त्वा सञ्च जग्राह तत्क्षणं स पुरोहितः ॥१६६॥
कृतातिथिं सतो याते स्ववधूवासकं शिवे।
नीत्वा स स्थापयामास सन्निजे कोषवेश्मनि ॥१६७॥
माधवोऽपि तदन्यद्युर्मान्याव्याजं शनैस्त्यजन्।
रोगोपशान्तिं वक्ति स्म महादानप्रभावतः ॥१६८॥
त्वया धर्मसहायेन समुत्तीर्णोऽस्म्यपापतः।
इति शान्तिकमायान्तं प्रशशंस पुरोहितम् ॥१६९॥
एतत्प्रभावादेतन्मे शरीरमिति कीर्तयन्।
प्रकाशमद धक्त च शिवेन सह मित्राम् ॥१७०॥
शिवोऽपि यातेषु दिनेष्ववादीत्तं पुरोहितम्।
एवमेव भवद्गेहे भोक्ष्यते न स्त्रियामया ॥१७१॥
तर्हि त्वमेव मूल्येन गृह्णास्याभरणं न सत्।
महार्हमिति वेन्मूल्यं यथासम्भावि देहि मे ॥१७२॥
तच्छ्रुत्वा तन्नधं च मत्वा तन्निष्क्रयं ददौ।
तन्नति तस्म सर्वस्वं शिवाय स पुरोहितः ॥१७३॥
तदद्य च स्वहस्तन जीवं रूप्यमकारयत्।
स्वयं बाष्पकरोत् शुद्धवा तच्च स्वधनाधिकम् ॥१७४॥
अन्योऽयल्लिम्पितं हस्ते गृहीत्वा स पुरोहितः।
पृष्टगामीत्युपक्रमोऽपि शिवो भेजे गृहस्थितिम् ॥१७५॥


१ मुधा रोप्याभ्यसं कृतवतः।