कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 549, कुल 876 में से
संदर्भ में पढ़ें५२
कथासरित्सागर
इह स्थितो वणिग्भार्यो गजपुत्रो महाधनः।
माधवस्य स चास्वस्थः सर्वस्वं दातुमुद्यतः ॥१४८॥
मन्यसे यदि तत्तुभ्यं स सर्वं तत्प्रयच्छति।
नानानर्घमहारत्नमयालंकरणोज्ज्वलम् ॥१४९॥
तच्छ्रुत्वा स शनैर्मुग्धस्मीन किल शिवोऽब्रवीत्।
ब्रह्मन् ! भिक्षाशनस्यार्थे कोऽर्थो मे ब्रह्मचारिणः ॥१५० ॥
ततः पुरोहितोऽप्येवं स तं पुनरभाषत।
भव वादीन्महाब्रह्मन् ! किं न वेत्स्याधमक्रमम् ॥१५१॥
कृतदारो गृहे कुर्वन्देवपित्रतिथिक्रियाः।
धर्मस्त्रिवर्गं प्राप्नोति गृही ह्याश्रमिणां वरः ॥१५२॥
ततः सोऽपि शिवोऽवादीत् कुतो मे दारसङ्ग्रहः।
नाह्याहं परिणेष्यामि कुलाद्यावृतावृतास् ॥१५३॥
तच्छ्रुत्वा सुक्षमोम्यं च मत्वा तस्य तथा धनम्।
स प्राप्तावसरो लुब्धः पुरोधस्तमभाषत ॥१५४॥
अस्ति सर्हि सुता कन्या जिनस्वामिनीति मे।
अतिरूपवती सा च तां च तुभ्यं ददाम्यहम् ॥१५५॥
यच्च प्रतिग्रहधनं तस्मात् प्राप्नोषि माधवात्।
तदहं तव रक्षामि त्वम्भाजस्व गृहाश्रमम् ॥१५६॥
इत्याकर्ण्य स सम्प्रन्नयथेष्टार्थः शिवोऽब्रवीत्।
ब्रह्मन् प्रहस्तवाय चरात्करोमि वचस्तव ॥१५७॥
हेमरत्नस्वरूपे तु मुग्ध एवास्मि तापसः।
त्वद्वचांस्यव प्रवर्त्तेऽहं यथा वेत्सि तथा कुरु ॥१५८॥
एतच्छिववचः श्रुत्वा परितुष्टस्तथेति तम्।
मूढो निनाय गेहं स्वं सबैव स पुरोहितः ॥१५९॥
सन्निवेश्य च तत्रैनं शिवाख्यमशिवं ततः।
प्रद्यावृतो धादावैनन्माधवायाभिसन्दधे ॥१६० ॥
तदैव च ददौ तस्मै युतां कलशविवर्णिताम्।
निजां शिवाय सन्न्यसिमिव मूढत्वहारिताम्१ ॥१६१॥
१ स्वमूर्खतया अपहारितामिति भावः।