सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 545, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 545

४१८ कथासरित्सागर
तत प्रयागते तस्मिन्धूर्तेऽन्येषु स माधव ।
लब्धावकाशस्तमगात्स्वय द्रष्टु पुरोहितम् ॥१२०॥
धृतकार्पटिकाकारे राजपुत्रापदेशिभि ।
वृत पार्श्वचरैरातत्काव्यसण्डकलाञ्छन ॥१२१॥
पुरोगावेदितदनन्यभ्यगात्स पुरोहितम् ।
तेनाप्यभ्युद्गमानन्दस्वागतैरभ्यनन्दत ॥१२२॥
सततस्तेन सह स्थित्वा कथालापै क्षण च स ।
आययौ तदनुज्ञातो माधवो वसति निजाम् ॥१२३॥
द्वितीयेऽह्नि पुन प्रद्य प्रभूत वस्त्रयोर्युगम् ।
भूयोऽपि तमुपागच्छ पुरोहितमुवाच च ॥१२४॥
परिवारानुरोधेन किल सवाशिनो वयम् ।
तेन त्वमाधितोऽस्माभिरर्थमात्रास्ति न पुन ॥१२५॥
तच्छ्रुत्वा प्राप्तिमाशङ्क्य तस्मात्सोऽथ पुरोहित ।
प्रतिशुश्राव¹ तत्सस्मै माधवाय समीहितम् ॥१२६॥
क्षणाच्च गत्वा राजानमेतदर्थ व्यजिज्ञपत् ।
तद्गौरवेण राजापि तत्तथा प्रत्यपद्यत ॥१२७॥
अपरेऽह्नि च नीत्वा त माधव सपरिच्छदम् ।
नृपायादर्शयत्तस्मै स पुरोधा सगौरवम् ॥१२८॥
नृपोऽपि माधव दृष्ट्वा राजपुत्रोपमाकृतिम् ।
आदरेणानुजग्राह वृत्ति चास्य प्रदिष्टवान् ॥१२९॥
ततोऽत्र सवमानस्त नृप तस्मै स माधव ।
रात्रौ रात्रौ च मन्त्राय शिवेम समगच्छत ॥१३०॥
इहैव वस मद्गेह इति तेन पुरोधसा ।
सोऽभितश्चामवत्स्तोमादुपचारोपजीविना ॥१३१॥
तत सहचरी साक तस्यवाशिश्रियद् गृहम् ।
विनाशहेतुर्वासाय मद्गु स्कन्ध तरोरिव ॥१३२॥
कृत्वा कृत्रिममाणिक्यमयाभरणभृंतम् ।
भाण्ड च स्थापयामास तदीये कोषवेश्मनि ॥१३३॥
१ स्वीकार ।
२ 'विनाशहेतुर्वासोऽयमासीत् स्कन्धे तरोरिव' इति पुस्तकान्तरे पाठः। 'मद्गुः
पानीयकाकिका' जलकुक्कुट इति प्रसिद्धः। मद्गुर्यस्मिन्व्रक्षे निवसति तमेवाश्वत्थं विनाशयति
तथैव माधवोऽपि पुरोहितविनाशाय तद्गृहेऽवस्थितः।