सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 543, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 543

४९६ कथासरित्सागर
तावच्च स द्वितीयोऽस्य १ सक्ता चारमुखम् तम् ।
विज्ञाय माधवोऽप्येतन्नगरीं प्रविवेश ताम् ॥१०६॥
गृहीत्वा वसतिं चात्र दूरे देवकुलात्सरे ।
स राजपुत्रच्छन्ना सन् स्नातुं क्षिप्रातटं ययौ ॥१०७॥
स्नात्वा सानुचरो दृष्ट्वा ददर्श तपस्तत्परम् ।
तं शिवं परमश्रद्धो निपपातास्य पादयोः ॥१०८॥
जगाद च जनस्याग्रे नास्तीदृक्तपसोऽपरः ।
असकृद्धि मया दृष्टस्तीर्थान्येष भ्रमन्निति ॥१०९॥
शिवस्तु तं विलोक्यापि दृप्तस्तम्भितकन्धरः ।
तूष्णीमासीत्ततः सोऽपि माधवो वसतिं ययौ ॥११०॥
रात्रौ मिलित्वा चक्रतुर्भुक्त्वा पीत्वा च तावुभौ ।
मन्त्रयामासतुः शेषं कर्तव्यं यवतः परम् ॥१११॥
यामे च पश्चिमे स्वरमागात् स्वमठिकां शिवः ।
माधवोऽपि प्रभाते स्वं धूर्तमेकं समादिशत् ॥११२॥
एतद् गृहीत्वा गच्छ त्वं वस्त्रयुग्म मुपायनम् ।
शङ्करस्वामिनः पार्श्वमिह राजपुरोधसः ॥११३॥
राजपुत्रः परामूतो माधवो नाम गोत्रजः ।
पित्र्यं बहुगृहीत्वार्थमागतो दक्षिणापथात् ॥११४॥
समं कतिपयैरस्य राजपुत्रैरनुव्रतः ।
स चह युष्मदीयस्य राज्ञः सर्वां करिष्यति ॥११५॥
येन त्वद्दर्शनायाहं प्रेषितो यशसां निधे ।
इति त्वया सविनयं स च वाच्यः पुरोहितः ॥११६॥
एव स माधवेनोक्तो धूर्तः सम्प्रेषितस्तथा ।
जगामोपायनकरो गृहं तस्य पुरोधसः ॥११७॥
उपेत्यावसरे दत्त्वा प्राभृतं बिजने च तत् ।
तस्मै माधवसन्देशं शशंसि स्म यथोचितम् ॥११८॥
सो ऽप्युपायनलोभात्तन्मूढचे कल्पितायतिः ।
उपप्रदान लििप्सूनामङ्क ३ ग्याश्चर्यजोपभम् ॥११९॥
१ वणिग्वेशमभिनिर्मितं चीतं प्राचारकं चेति बुद्धम् ।
२ प्राभृतम् = उपायनम् । 'भेंट' इति भाषायाम् ।
३ 'भेंट' 'घूस' इति प्रसिद्धम् ।