कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 541, कुल 876 में से
संदर्भ में पढ़ें४२४ कथासरित्सागर
सा च प्रभातकार्याद्युनयन् मुखालिपत्।
अवीचि¹कर्ममालपसूत्रपातमिवाचरन् ॥९३॥
सरित्तोये च स चिरं निमज्ज्यासीदवाङ्मुखः।
कुकर्मजामिवाभ्यस्यन् भविष्यन्तीमधोगतिम् ॥९४॥
स्नानोत्थितोऽर्काभिमुखस्तस्थावूर्ध्वं चिरं च सः।
शूलाधिरोपणौचित्यमात्मनो दर्शयन्निव ॥९५॥
ततो देवाग्रतो गत्वा बद्धकूर्चकरो जपन्।
आस्त पद्मासनासीनः सदम्भश्चतुराननः² ॥९६॥
अन्तरा हृदयानीव साधूनां कतवेन सः।
स्वच्छान्याहृत्य पुष्पाणि पुरारिं पर्यपूजयत् ॥९७॥
कृतपूजश्च भूयोऽपि मिथ्याजपपरोऽभवत्।
दत्तावधानः कुसृतिष्विव³ ध्यानं सतान सः ॥९८॥
अपराह्णे च भिक्षार्थी कृष्णसाराजिनाम्बरः।
पुरि तद्वञ्चनामायाकटाक्ष इव सोऽभ्रमत् ॥९९॥
आदाय द्विजगेहेभ्यो मौनी भिक्षात्रयं ततः।
सदण्डाजिनकञ्चक्रे त्रिसत्यमिव सञ्चरन् ॥१००॥
भागं ददौ च काकेभ्यो भागमभ्यागताय च।
भागेन दम्भबीजेन कुक्षिमस्रामपूरयत् ॥१०१॥
पुमः स सर्वपापानि निजानि गणयन्निव।
जपन्नावर्त्तयामास चिरं मिथ्याक्षमालिकाम् ॥१०२॥
रजयामद्वितीयेन च स तस्यो मठान्तरे।
अपि मूढ्मानि शेक्य तस्वस्थानानि पित्तयन् ॥१०३॥
एवं प्रतिदिनं कुर्वन् पट्टं व्याजमयं शत।
स तत्रावर्जयामास नगरीस्वामिनां मनः ॥१०४॥
अहो तपस्वी शान्तोऽयमिति ख्यातिञ्च सर्वतः।
उत्पादत तत्राम्य भक्तिगम्भीरिए जनः ॥१०५॥
१ अवीचिर्नाम नरकः, तद्भेदोस्तरमवीचिमहारौरवरौरवाः—इत्यमरः।
२ धूर्तरूपम् चतुरं आननं यस्य सः। यस्य मुखं एव चातुर्यं प्रतिभामने रक्तः।
३ कुसृतिः—शाठ्यम्।