सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 535, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 535

४८८ कथासरित्सागर

निर्गत्य च समादिश्य तत्क्षणं राजपूरुषान् ।
भ्रामयामास पटहं कृतश्रवणकौतुकम् ॥५२॥
विप्रः क्षत्रयुवा वा कनकपुरी योऽत्र दृष्टवाश्नगरीम् ।
वदतु स तस्मै राजा ददाति तनयां च यौवराज्यं च ॥५३॥
इति श्रुतस्ततस्तन्नगरं दत्तविस्मयम् ।
उदघोष्यत सर्वत्र पटहानन्तरं बुधैः ॥५४॥
केयं पुरेऽस्मिन्कनकपुरीनामाद्य घोष्यत ।
या वृद्धैरपि नास्माभिदृष्टा जातु न च श्रुता ॥५५॥
इत्येव धावन्पौराः श्रुत्वा सो तंन घोषणाम् ।
न पुन कश्चिदेकोऽपि मया दृष्टेत्यभाषत ॥५६॥
तावच्च तन्निवास्त्येकः शक्तिदेव इति द्विजः।
बसुदेवतनुजस्तामश्रृणोत्तत्र घोषणाम् ॥५७॥
स युवा व्यसनी सद्यो द्यूतेन विवनीकृतः ।
अचिन्तयद्राजसुताप्राथनाकर्णनोन्मनाः ॥५८॥
द्यूतहारितनिश्शेषवित्तस्य मम नाधुना ।
प्रवेशोऽस्ति पितुर्गेहे नापि पण्याङ्गनागृहे ॥५९॥
तस्मादगतिकस्तावद् वरं मिथ्या ब्रवीम्यहम् ।
मया सा नगरी दृष्टेत्येव पटहघोषकान् ॥६०॥
को मां प्रत्येष्यभिज्ञानं केन दृष्टा कदा हि सा ।
स्यादेव च कदाचिन्मे राजपुत्र्या समागमः ॥ ६१॥
इति सञ्चिन्त्य गत्वा तान् स राजपुरुषांस्तदा ।
शक्तिदेवो मया दृष्टा सा पुरीत्यबवन्मृषा ॥६२॥
विष्टया तर्हि प्रतीहारपार्श्वमेहीहि सत्वरम् ।
उक्तस्तद्भूभिश्च तैः साकं स प्रतीहारमभ्यगात् ॥६३॥
तस्मै तथैव प्राशंसत्त्तुरीदर्शनं मृषा ।
तेनापि सस्कृत्य ततो राजात्तिकमनीयत ॥६४॥
राजाग्रेऽप्यविकत्थ्य सन्तथैव च तदब्रवीत् ।
द्यूतदान्तस्य किं नाम कितबस्य हि दुष्करम् ॥६५॥