कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 521, कुल 876 में से
संदर्भ में पढ़ें४०८ कथासरित्सागर
यौगन्धरायणः प्राङ्मरुभूतिं हरिशिखं रुमण्वानथ ।
गोमुखमित्येकनामा तपन्तकाख्यं वसन्तकश्च सुतम् ॥१९०॥
शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्तिसोममपरं च।
वैश्वानरमर्पितवान्पिङ्गलिकापुत्रकौ यमजौ ॥१९१॥
तस्मिन्क्षणे च नभसो निपपात दिव्या
नान्दीनिनादसुभगा सुरपुष्पवृष्टिः ।
राजा ननन्द च तथा महिषीसमेत-
सत्कृत्य तत्र सचिवात्मजमण्डल तद् ॥१९२॥
बाल्योऽपि तैरभिमतैश्च मन्त्रिपुत्रै
पञ्चभिस्तदेकनिरतैश्च स राजपुत्रः ।
युक्तः सदैव नरवाहनदत्त आसी-
द्युक्तो गुणैरिव महोदयहेतुभूतैः ॥१९३॥
तं च क्रीडाञ्चलितललिताम्यक्तनर्माभिलापं
यान्तं प्रीतिप्रवणमनसामङ्कतोऽङ्कं नृपाणाम्।
पुत्रं स्मेराननसरसिज सादरं पश्यतस्ते
सदानन्दाः किमपि दिवसा वत्सराजस्य जग्मुः ॥१९४॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
नरवाहनदत्तजनन लम्बके तृतीयस्तरङ्गः।
समाप्तश्चायं नरवाहनदत्तजनन लम्बकश्चतुर्थः।