सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 519, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 519

२४६ कथासरित्सागर
बभ्रमुस्तूर्यनिर्नादा नभस्तो मन्दिरोद्गताः ।
विद्याधरेभ्यः सर्वेभ्यो राजनभय शंसितुम् ॥७७॥
सौधाग्रेष्वनिलोद्धूताः शोणरागाः स्वकान्तिभिः ।
पताका अपि सिन्दूरमयोममकिरन्निव ॥७८॥
भुवि साङ्गस्मरोत्पत्तितोषान्निव सुराङ्गनाः ।
समागताः प्रतिपदं ननर्तुर्वारयोषितः ॥७९॥
अदृश्यत च सर्वा सा समानविभवा पुरी ।
राज्ञो महोत्सवात् प्राप्तैर्नववस्त्रविभूषणैः ॥८०॥
तदा हर्षाभ्युपे तस्मिन्खर्वत्यर्थ्यनुजीविषु ।
कोषादूतं न तन्मध्यो दधौ कश्चन रिक्तताम् ॥८१॥
मङ्गस्यपूर्वा स्वाचारदक्षिणा नर्त्तितापरा ।
मत्स्रामृतोत्तरास्तैस्तैः सुरक्ष्मिभिरधिष्ठिता ॥८२॥
प्रसृतातोद्यनिर्ह्रादा साक्षाद्दिव इवाखिला ।
समन्तादाययश्चात्र सामन्तान्तःपुराङ्गनाः ॥८३॥
चेष्टा नृत्तमयी तत्र पूर्णपात्रमयः वचः ।
व्यवहारो महात्यागमयस्तूर्यमयो ध्वनिः ॥८४॥
चीनपिष्टमयोमोदकचारुचक्रमयी च भूः ।
मानन्दमयी सर्वस्यामपि तस्यामभूत्पुरि ॥८५॥
एव महोत्सवास्तत्र भूरिवासर्वर्धितः ।
निर्वर्त्तते स्म न सम पूर्णे पौरमनोरथः ॥८६॥
सोऽपि व्रजत्सु दिवसेष्वथ राजपुत्रो
वृद्धिं धित्युः प्रतिपदिन्दुरिवा जगाम ।
पित्रा यथाविधिनिवेदितदिव्यवाणी
निर्दिष्टपूर्वनरवाहनदत्तनाम्ना ॥८७॥
यानि स्फुर मसृणमुग्धमुखप्रभाणि
द्वित्राणि यानि च लघुकलनाद्दुराणि ।
तानि स्मरन्ति ददतो वदतश्च तस्य
दृष्ट्वा निशम्य च पदानि पिता तुतोष ॥८८॥
अथ तस्म मन्त्रिवरा स्वसुतानानीय राजपुत्राय ।
शिशवे शिशून् महीपतिहृदयानन्दान् समर्पयामासुः ॥८९॥