सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 517, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 517

४७४ कथासरित्सागर

रत्नदीपप्रभासङ्गमक्रूरविविधायुधैः ।
गर्भरक्षाक्षमं तेजो ज्वलद्द्भिरिवावृतम् ॥६२॥
मन्त्रिभिस्तन्त्रितानमन्त्रतन्त्रादिरक्षितम् ।
धातृ मातृगणस्येव दुर्गं दुरितदुजयम् ॥६३॥
तत्रासूत च सा काले कुमारं कान्तदर्शनम् ।
क्षीरेन्दुमित्रं निर्गच्छच्छामृतमयमद्युतिम् ॥६४॥
येन जातेन न परं मन्दिरं तत्प्रकाशितम् ।
यावद्धृदयमप्यस्या मातुर्निश्शोकतमासम् ॥६५॥
ततः प्रमोदे प्रसरत्यन्तःपुरवासिनाम् ।
वत्सेशः सुतजन्मैतच्छुश्रावाभ्यान्तराज्जनात् ॥६६॥
तस्मै स राज्यमपि यत्प्रीतं प्रियनिवेदने ।
न ददौ तदनौचित्यभयेन न तु तृष्णया ॥६७॥
एत्य चान्तःपुरं सद्यो बढोत्सुक्येन चेतसा ।
चिरात्फलितसङ्कल्पः स ददर्श सुतं नृपः ॥६८॥
रक्तायताधरदलं पलोर्वाचारुकेसरम् ।
मुखं दधानं साम्राज्यलक्ष्मीलीलाम्बुजोपमम् ॥६९॥
प्रायेणान्यनृपश्रोभिर्भीत्येव निजलाञ्छनैः ।
उज्झितरक्षितं मूर्द्धो पादयोश्छत्रचामरैः ॥७०॥
ततो हर्षभरापूर्पोत्नोत्फुल्लया दृशा ।
मात्रायाः स्रवतीवास्मिंस्तत्स्नेहमहीपती ॥७१॥
नन्दत्स्वपि च योगन्धरायणादिषु मन्त्रिषु ।
गगनादुच्चचारैष काले तस्मिन् सरस्वती ॥७२॥
कामदेवावतारोऽयं राजन् जातस्तवात्मजः ।
नरवाहनदत्तश्च जामीहोनेमिहाख्यया ॥७३॥
अनेन भवितव्यं च दिव्यं कल्पमतन्द्रिणा ।
सर्वविद्याधरेन्द्रणामधिराज्यचक्रवर्तिना ॥७४॥
इत्युक्त्वा विरते वाचा तत्क्षणं नभसः क्रमात् ।
पुष्पवर्षनिपतितं प्रसूतं दुन्दुभिस्वने ॥७५॥
ततः महोत्सवारम्भजनिताभ्यधिकादरम् ।
स राजा सुतरां हृष्टश्चकार परमुत्सवम् ॥७६॥