सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 513, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 513

४०० कथासरित्सागर
तस्याऽभवच्च विकृता वपुषीवाशयेऽप्यरम्।
ख्याता कलहकारीति नाम्नान्वर्थेन गेहिनी ॥३३॥
स सम्यक् सततं भूरि राजतो द्यूततस्तथा।
प्राप्य प्राप्य धनं धीरः सर्वमेव समर्पयत् ॥३४॥
सा तु तस्य समुत्पन्नपुत्रत्रययुता शठा।
तथापि क्षणमप्येकं न तस्थौ कलहं विना ॥३५॥
बहिः पिवसि भुङ्क्षे च नैव किञ्चिद्ददासि न ।
इत्याटन्ती ससूता सा तं नित्यमतापयत् ॥३६॥
प्रसाध्यमानाप्याहारपानवस्त्रैरहर्निशम् ।
दुरन्ता भोगतृष्णेव भृशं जज्वल तस्य सा ॥३७॥
ततः श्रमण तन्मुषितस्त्यक्त्वैव तद्गृहम्।
स विन्ध्यवासिनीं द्रष्टुमागात्सिंहपराक्रमः ॥३८॥
सा च स्वप्ने निराहारस्थितं देवी समाविशत् ।
उत्तिष्ठ पुत्र तामद्य गच्छ वाराणसीं पुरीम् ॥३९॥
तत्र सर्वमहानेको योऽस्ति न्यग्रोधपादपः ।
तन्मूलात् खन्यमानाच्च स्वं निधिमवाप्स्यसि ॥४०॥
तन्मध्याल्लप्स्यसे चैकं नभःखण्डमिव च्युतम् ।
पात्रं गरुडमाणिक्यमयं निस्त्रिंशन्निर्मलम् ॥४१॥
तत्रापिताक्षो द्रक्ष्यस्यन्तः प्रतिमितामिव ।
सर्वस्य जन्तोः प्राग्जातिं या स्याज्जिज्ञासिता तव ॥४२॥
तेनैव वटवा भार्याया पूर्वजातिं तथाऽऽत्मनः ।
अवाप्ताथ सुखी तत्र गतसवो निवत्स्यसि ॥४३॥
एवमुक्तश्च देव्या स प्रबुद्धः कृतपारणः ।
वाराणसीं प्रति प्रायात्प्रातः सिंहपराक्रमः ॥४४॥
गत्वा च तां पुरीं प्राप्य तस्मान्न्यग्रोधमूलतः ।
खनं निधानं तन्मध्यात् पात्रं मणिमयं महत् ॥४५॥
अपश्यच्चात्र जिज्ञासुः पात्रे पूर्वं च जन्मनि ।
घोरामृक्षीं स्वभार्यां तामात्मानं च मृगाधिपम् ॥४६॥
पूर्वजातिमहावैरवासनानिच्छल ततः ।
बुद्ध्वा भार्यारमनोद्रूपं गेहमोहो मुमोष सः ॥४७॥