कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 505, कुल 876 में से
संदर्भ में पढ़ें४६२ कथासरित्सागर
ततोऽप्योव्यसमालाप्रचन्दद्विद्याधराधिपम्
बुद्धवा तं भक्षितं मोहाद् गरुत्मानभ्यतप्यत ॥२३८॥
अहो बत मूढस्य पापमापतितं मम ।
किं वा सुलभपापा हि भवन्त्युन्मार्गवृत्तयः ॥२३९॥
श्लाघ्यस्त्वय महात्मैष परार्थप्राणदायिना ।
ममेति मोहकृद्वक्ष येन विश्वमधः कृतम् ॥२४०॥
इति तं चिन्तयन्तं च गरुडं पापशुद्धये ।
वह्निं विविक्षुं जीमूतवाहनोऽथ जगाद स ॥२४१॥
पक्षिन्द्र किं विषण्णोऽसि सत्यं पापाद् बिभेषि चेत् ।
सन्दिदानीं न भूयस्ते भक्ष्याहीमे भुजङ्गमाः ॥२४२॥
कार्यश्चानुशयस्तेषु पूर्वभक्तेषु भोगिषु ।
एषोऽत्र हि प्रतीकारो वृथान्यच्चिन्तितं तव ॥२४३॥
इत्युक्तस्तेन स प्रीतस्ताख्यो भूतानुकम्पिना ।
तथेति प्रतिपेदे तद्वाक्यं तस्य गुरोरिव ॥२४४॥
ययौ चामृतमानेतुं नाकाञ्जीवयितुं जवात् ।
क्षताङ्गं तत्र तं चाप्यानस्थिशेषानहीनपि ॥२४५॥
ततश्च साक्षादागत्य देव्या सिक्तोऽमृतेन स ।
जीमूतवाहनो गौर्या तद्भार्याभक्तितुष्टया ॥२४६॥
तेनाधिकतरोद्भूतकान्तिर्ग्व्यङ्गानि जज्ञिरे ।
तस्य सानन्दगीर्वाणदुन्दुभिध्वनिभि सह ॥२४७॥
स्वस्थोत्थितं ततस्तस्मिन्नानीय गरुडोऽपि तत् ।
कृत्स्ने बेलातटेऽप्यथ ववर्षामृतमम्बरात् ॥२४८॥
तेन सर्वे समुत्तस्थुर्जीवन्तस्तत्र पन्नगाः ।
बभौ तच्च तदा भूरिभुजङ्गकुलसङ्कुलम् ॥२४९॥
बेलावनं विनिर्मुक्तबैनतेयभय तत ।
पातालमिव जीमूतवाहनालोकनागतम् ॥२५० ॥
ततोऽक्षयेण देहेन यशसा च विराजितम् ।
बुद्ध्वाभ्यनन्दत् बन्धुजनो जीमूतवाहनम् ॥२५१॥
ननन्द तस्य भार्या च सन्नातिः पितरौ तथा ।
को न प्रहृष्येद् दृष्टेन सुसत्त्वपरिघातिना ॥२५२॥