कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 499, कुल 876 में से
संदर्भ में पढ़ें४५६ कथासरित्सागर
वरप्रभावभीतांश्च मुग्धानाश्वास्यगाद तान् ।
इदमानीतममृतं मुक्त्वाम्बां मम गृह्यताम् ॥१९४॥
अय निक्षिपाम्येतदहं वो धर्मसंस्तरे ।
तन्मोच्याम्बा च गच्छामि स्वीकुरुध्वमिदं सुधाम् ॥१९५॥
तथेत्युक्ते च तैर्नागैः स पवित्रं कुशास्तरे ।
सुधाकलशमाधत्त ते प्रास्य जननीं जहुः ॥१९६॥
दास्यमुक्तां च कृत्वैवं मातरं गरुडे गते ।
यावद्धावन्ते नागा मिथुश्चास्तत्स्थिलामृतम् ॥१९७॥
तावन्निपत्य सहसा तान् विमोह्य स्वशक्तितः ।
स सुधाकलशं शक्रो जहार कुशसंस्तरात् ॥१९८॥
विपन्नास्तेऽथ नागास्तं लिलिहुर्धर्मसंस्तरम् ।
कदाचिदमृतस्योतलेपोऽप्यस्मिन् भवेदिति ॥१९९॥
तेन पाटितजिह्वास्ते वृथा प्रापुर्द्विजिह्वताम् ।
हास्यादृते किमन्यत्स्यादतिलौल्यवतः फलम् ॥२००॥
अथालब्धामृतरसान्नागान्वैरी हरेर्वरात् ।
तार्क्ष्यः प्रबभूवे भोक्तुं तान्निपत्य पुनः पुनः ॥२०१॥
तदापाते च पातालं त्रासनिर्जिताखिलम् ।
प्रभ्रष्टगर्भिणीगर्भमभूत्कंपितपन्नगम् ॥२०२॥
नागानां ह्रासो जीमूतवाहनस्यात्मनोत्सव
तं दृष्ट्वा बान्धवहं तत्र वासुकिर्भुजगेश्वरः ।
कृत्स्नमेवपदं नष्टं नागलोकममन्यत ॥२०३॥
ततो दुर्वारवीर्यस्य सपत्नस्तस्य विचिन्त्य सः ।
समयं प्रार्थनापूर्वं चकारैवं गरुत्मतः ॥२०४॥
एकैकं प्रतिदिनं नागं ते प्रेषयाम्यहम् ।
आहारहेतोः पक्षीन्द्र ! पयोधिपुलिनाञ्चले ॥२०५॥
पातालन्तु प्रवेष्टव्यं न त्वया सर्ववारिणा ।
मामलोभदायात्साभ्यस्सर्वैव हि विनश्यति ॥२०६॥
इति वासुकिना प्रोक्तस्तथेति गरुडोऽन्वहम् ।
तत्प्रहितमिहैकेकं नागं भोक्तुं प्रचक्रमे ॥२०७॥