कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 495, कुल 876 में से
संदर्भ में पढ़ें४५२ कथासरित्सागर
सोऽहं स त समुत्पन्नो नाम्ना जीमूतवाहनः ।
विद्याधरकुलेऽमुष्मिंश्चेष जातिस्मरोऽधुना ॥१६६॥
स चापि शबरेन्द्रस्त्वं जातो मित्रावसुः पुनः ।
त्र्यक्षप्रसादात्सिद्धानां राज्ञो विश्वावसो सुतः ॥१६७॥
सापि विद्याधरी मित्र मम भार्या मनोवती ।
तव स्वसा समुत्पन्ना नाम्ना मलयवत्यसौ ॥१६८॥
एव मे पूर्वपत्न्येषा भगिनी ते भवानपि ।
पूर्वमित्रमतो युक्ता परिणेतुमसो मम ॥१६९॥
किं तु पूर्वमितो गत्वा मम पित्रोर्निवेदय ।
तयो प्रमाणीकृतयो सिद्ध्येदेतत्तदीप्सितम् ॥१७०॥
जीमूतवाहनमलयवतीविवाहः
इत्य निशम्य जीमूतवाहनात् प्रीतमानसः ।
गत्वा मित्रावसुः सर्वं तत्पितृभ्यां शशंस तत् ॥१७१॥
अभिनन्दितवाक्यश्च ताभ्यां दृष्टस्तथैव सः ।
उपगम्य तयैवाथ स्वपितृभ्यां न्यवेदयत् ॥१७२॥
तयोरीप्सितसम्पत्तिस्तुष्टयोः सत्वरं च सः ।
युवराजो विवाहाय सम्भारमकरोत् स्वसुः ॥१७३॥
ततो जग्राह विधिवत्तस्या जीमूतवाहनः ।
पाणिं मलयवत्याः स सिद्धराजपुरस्कृतः ॥१७४॥
बभूव चोत्सवस्तत्र चण्डद्युतिचरेश्वरः ।
सम्मिश्रितोदकश्चातो वत्सादिविद्याधरोत्करैः ॥१७५॥
कृतोद्वाहस्ततस्तस्थौ तस्मिञ्जीमूतवाहनः ।
मलयाद्रौ महार्हेण विभवेन वधूसखः ॥१७६॥
एकदा च स्वशूर्येण स मित्रावसुना सह ।
वनावनानि जलधेरवलोकयितुं ययौ ॥१७७॥
तत्रापश्यच्च पुरुषं युवानं खिन्नमागतम् ।
निवारयन्तं जननीं हा पुत्रे ति विरविणीम् ॥१७८॥
भटेश्च परिव्यस्तं भटनेवानुयायिना ।
पृष्ठतः पृच्छत प्राप्त्यक शिलाखण्डम् ॥१७९॥