कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 489, कुल 876 में से
संदर्भ में पढ़ेंएतच्छ्रुत्वा प्रबुद्धस्य तस्य कालेन चात्मजः।
अहमेव समुत्पन्नो वसुदत्त इति श्रुतः ॥११९॥
अयं च प्लवगाधीशः स्वयंवरसुहृन्मया।
देशान्तरगतैन प्राप्तप्राप्तः कृच्छ्रैकबान्धवः ॥१२०॥
एष मे तत्त्वसंक्षेप इत्युक्त्वा विरते मयि।
अभाषताथ कन्या सा लज्जयावनतानना ॥१२१॥
अस्येतेमां च जानेऽद्य स्वप्नेऽर्जितवती हरः।
प्रातः प्राप्स्यसि भर्तारमिति तुष्टः किलादिशत् ॥१२२॥
तस्मात्त्वमद्य मे भर्त्ता भ्रातायं च गवत्सखः।
इति वाक्सुधया सा मामानन्द्य विरताभवत् ॥१२३॥
सम्मन्त्र्याथ तया साकं विवाहाय यथाविधि।
अकार्यं निश्चय गन्तु समिन्धोऽहं निज गृहम् ॥१२४॥
[L13: तत सा सिंहमाहूय वाहनं तं स्वसज्ञया।
अत्रारोहायंपुत्रेति मामभाषत सुन्दरी ॥१२५॥
अथाहुं तेन सुहृदानुयात शबरण तम्।
सिंहमारुह्य दयितामुत्सङ्गे स्वां गृहीतवान् ॥१२६॥
तत प्रस्थितवानस्मि कृतकृत्यो निजं गृहम्।
कान्त्या सह सिंहस्थो मित्रे तस्मिन्पुरःसरे ॥१२७॥
तपीयस्तरनिमिशहरिणानिवृत्तय ।
क्रमेण ते वयं सर्वे सम्प्राप्ता वरुणी पुरीम् ॥१२८॥
तत्र मामागतं दृष्ट्वा सिंहारूढं सवल्लभम्।
साश्चर्यस्तद्द्रुतं गत्वा मम पित्रेऽब्रवीज्जनः ॥१२९॥
सोऽपि प्रत्युद्गतो हर्षादवतीर्णं मृगेन्द्रतः।
पादानतं दृष्ट्वा मामभ्यनन्दत् सविस्मयः ॥१३०॥
अनन्यसदृशीं तां च कृतपादामिवन्दनाम्।
पश्यन्ममोचितां भार्या न माति स्म मुदा क्वचित् ॥१३१॥
प्रवेश्य मन्दिर चास्मान् वृत्तान्त परिपृच्छ्य च।
प्रशंस शबराधीशसौहार्दं सोत्सव व्यधात् ॥१३२॥
ततो मौहूर्तिकापद्यावन्त्येधुर्वंरकन्यका।
सा मया परिणीताऽभून्मिस्तारिम्बन्युना ॥१३३॥