कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 487, कुल 876 में से
संदर्भ में पढ़ेंरतेस्तद्वासवेश्मेव विधात्र्यै गिरिकाननम् ।
आवयोरभवल्लक्ष्म पिवतोस्तत्सरोजलम् ॥१४॥
ततोऽन्येषु प्रतिपदं तत्तत्पुरुकलिकामृता ।
प्रत्युद्गतेव मनसा मम तन्मार्गभाविना ॥१५॥
चक्षुषा दक्षिणेनापि सूचितागमनामूना ।
दिवुक्षयेव स्फुरता सा कन्यात्रागताभवत् ॥१०६॥
सटारुत्सिंहपृष्ठस्था सुभ्रूदृष्टा मया च सा ।
शरव्यम्भोघरोत्सङ्गसङ्गिनीवन्द्यवी कला ॥१०७॥
विलसद्विस्मयौत्सुक्यसाध्वसं पश्यतश्च ताम् ।
ममावर्तत तत्काल न जाने हृदय कथम् ॥१०८॥
अथावतीर्य सिंहात्सा पुष्पाण्युच्चित्य कन्यका ।
स्नात्वा सरसि तत्तीरगत हरमपूजयत् ॥१०९॥
पूजावसाने चोपैत्य स सखा शबरो मम ।
प्रणम्यात्मानमावेद्य तामबोचत् कृतादराम् ॥११०॥
आनीतः स मया देवी सुहृद्योग्यो वरस्तव ।
मन्यस यदि तत्तुभ्य दर्शयाम्यधुनैव तम् ॥१११॥
तच्छ्रुत्वा दर्शयेत्युक्ते तया स शबरस्ततः ।
आगत्य निकटं नीत्वा मां तस्याः समदर्शयत् ॥११२॥
सापि मां तिर्यगालोक्य चक्षुषा प्रणयलुठता ।
मदनावेशसन्नगा शबरेश तमभ्यधात् ॥११३॥
सखा ते मानुषो नाय कामः कोऽप्ययमागतः ।
मद्गच्छनाय देवोऽस्य मर्त्यस्याप्याकृति कृतः ॥११४॥
तदाकर्ण्योक्तवानस्मि तां प्रत्याययितुं स्वयम् ।
सत्यं सुवरि ! मर्त्योऽहं किं व्याजनाजने जने ॥११५॥
अह हि सार्थवाहस्य वल्मीकासिनः सुतः ।
महाधनाभिधानस्य महेश्वरवराजितः ॥११६॥
तपस्यन्स हि पुत्रार्थमुद्दिश्य शशिशेखरम् ।
समादिष्टस्ततस्तेन स्वप्ने देवेन तुष्यता ॥११७॥
उत्तिष्ठोत्तस्यते कोऽपि महात्मा तनयस्तव ।
रहस्यं परमं यत्तत्सम्प्रवक्ष्याम विस्तरम् ॥११८॥