कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 485, कुल 876 में से
संदर्भ में पढ़ें४४२ कथासरित्सागर
अहं भवानीपादैकशरणः शबराधिपः।
आगतोऽस्मि च मातङ्गमक्ताहेतोरिदं वनम् ॥८८॥
त्वां च दृष्ट्वाधुनारम्यो देवि प्राणप्रयः सुहृत्।
सार्थवाहसुतः श्रीमान् वसुदत्तो मया स्मृतः ॥८९॥
स हि त्वमिव रूपेण यौवनेन च सुन्दरि!।
अद्वितीयोऽस्य विश्वस्य नयनामृतनिर्भरः ॥९०॥
सा धन्या कन्यका लोके यस्यास्तेनेह युज्यते।
मैत्रीदानदयाधैर्यनिविग्ना कङ्कणी करः ॥९१॥
तत्त्वदाकृतिरेषा चेत्तादृशेन न युज्यते।
व्यर्थं वहति तन्कामः कोदण्डमिति मे व्यथा ॥९२॥
इति व्याधभटवचनैः सद्योऽपहृतमानसा।
सामूत्कुमारी कन्दर्पमोहमन्त्राक्षरैरिव ॥९३॥
उवाच तं च शयरं प्रेर्यमाणा मनोभुवा।
क्व स ते सुहृदानीय सान्त्व मे दश्यतामिति ॥९४॥
तच्छ्रुत्वा च तथेत्युक्त्वा सामामन्त्र्य सत्वरं सः।
कृतार्थमानी मुदितः प्रतस्थे शबरस्ततः ॥९५॥
प्राप्य स्वपल्लीमादाय मुक्तामृगमदादिकम्।
भूरि भारशतैर्हायमस्मद्गृहमथाययौ ॥९६॥
सर्वं पुरस्कृतस्तत्र प्रविश्य प्रामृतं च तत्।
मल्पित्रे म बहुस्वर्णलक्षमूल्यं न्यवेदयत् ॥९७॥
उत्सवेन च यातेऽस्मिन्दिने रात्रौ स मे रहः।
कन्यादानवृत्तान्तं तमामूलाद्व्यवर्णयत् ॥९८॥
एहि तत्रैव गच्छाव इत्यक्त्वा च समुत्सुकम्।
मामादाय निशि स्वरं स प्रायाच्छ्बगधिपः ॥९९॥
प्रातश्च मां गतं क्वापि बुद्धवा महावराधिपम्।
तत्प्रीतिप्रत्ययात्सम्पौ धृतिमालम्ब्य मन्पिता ॥१००॥
अहूं च प्रापितोऽभूव क्रमात्तंन तरस्विना।
शबरं तुषाराद्रिं शून्याम्बरशिखर्मणा ॥१०१॥
तच्च प्राप्य मरे माथ स्नात्वा स्वादुफलाशनी।
अहूं च स च तामेकां वने तत्रोषितो निशाम् ॥१०२॥
स्तनामि शीजकुसुमं भृङ्गीमञ्जीरसुन्दरम्।
गुमगन्धबहं हारि ज्वलितौषधिदीपकम् ॥१०३॥