सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 475, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 475

४३२ कथासरित्सागर
जीमूतवाहनकथा¹
अस्त्यम्बिकाजनयिता नगेन्द्रो हिमवानिति।
न केवलं गिरीणां यो गुरूणां रीप्सितेरपि॥१६॥
विद्याधरनिवासश्च तस्मिन्विद्याधराधिपः।
उवास राजा जीमूतकेतुर्नाम महाबलः॥१७॥
तस्याभूत्कल्पवृक्षश्च गृहे पितृक्रमागतः।
नाम्नामर्थेन विख्यातो यो मनोरथदायकः॥१८॥
कदाचिच्च स जीमूतकेतू राजाभ्युपेत्य तम्।
उद्याने देवतात्मानं कल्पद्रुममभाषत॥१९॥
सर्वदा प्राप्यतेऽस्माभिस्त्वत्तः सर्वमभीप्सितम्।
तदधुनाय मे देहि देव पुत्रं गुणान्वितम्॥२०॥
ततः कल्पद्रुमोऽवादीद्राजन्नुत्पत्स्यते तव।
जातिस्मरो दानवीरः सर्वभूतहिते सुतः॥२१॥
तच्छ्रुत्वा स प्रहृष्टः संन्कल्पवृक्षं प्रणम्य तम्।
गत्वा निवेद्य तद्राजा निजां देवीमनन्दयत्॥२२॥
अथ तस्याचिरादेव राज्ञः सूनुरजायत।
जीमूतवाहन इति नाम्ना स विदधे पिता॥२३॥
ततः सहजया साकं सर्वभूतानुकम्पया।
जगाम स महासत्त्वो वृद्धिं जीमूतवाहनः॥२४॥
क्रमाच्च यौवराज्यस्थं परिषर्याप्रसादितम्।
लोकानुकम्पी पितरं विजने स व्यजिज्ञपत्॥२५॥
जानामि तात यद्भावा भवऽस्मिन्क्षणभङ्गुराः।
स्थिरं तु महतामेकमाकल्पममलं यशः॥२६॥
परोपकृतिसम्भूतं तदेवेह यदि हन्त तत्।
किमन्यैस्स्नायुदाराणां धनैः प्राणाधिकप्रियैः॥२७॥
सम्पदश्च विद्युदिव सा लोकलोचनस्वेदकृत्।
सोल्ला क्वापि रुजं याति या परानुपकारिणी॥२८॥
१ इयमेव कथा श्रीहर्षप्रणीतस्य नागानन्दनाटकस्याधारभूता।