कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 473, कुल 876 में से
संदर्भ में पढ़ें४६ कथासरित्सागर
सा बभौ सोरुनेत्रेण मुखेनापाण्डुकान्तिना।
क्षणार्ङ्गेनेव गर्भस्थकामप्रेमोपगामिना ॥२॥
आसीनाया पतिस्नेहाद्धतिप्रीती इवागते।
रेजतु प्रतिमे तस्या मणिपर्यङ्कपाश्वयो ॥३॥
भाविबिद्याधराधीशगमसेवाधमिष्टदा ।
मूर्त्ता विद्या इवायाता सख्यस्तो पर्युपासत ॥४॥
विनीलपल्लवश्याममुखौ साथ पयोधरौ।
सूनोगर्भभिषेकाय बभार कलशाविव ॥५॥
स्वच्छस्फुरितसञ्छायमणिकुट्टिमशोभिनः ।
सुलक्षभ्यागता मध्य मन्दिरस्य रराज सा ॥६॥
भाविततनयाक्रान्तिन्नाकम्पितवारिभि ।
उपत्य सेव्यमानेव समन्ताद्रत्नराशिभिः ॥७॥
तस्या विमानमध्यस्थरत्नोत्था प्रतिमा बभौ।
विद्याधरश्रीनमसा प्रणामार्थमिवागता ॥८॥
मन्त्रसाधनसन्ना साधकेन्द्रकथासु च।
बभूव सा दोहदिनी प्रसङ्गोपगतासु च ॥९॥
सरसारम्भसङ्गीता विद्याधरवराङ्गनाः।
स्वप्ने तामम्बरोत्सङ्गमारुढामुपतस्थिरे ॥१ ०॥
प्रवृत्ता सवितुं साक्षाद्देवाभिमन्ताप सा।
नभ क्रीडाविलसितं दृश्यभूतरुकोतुकम् ॥११॥
तं च दोहदमेतस्या देव्या यौगन्धरायणः।
यन्त्रमन्त्रेन्द्रजालादिप्रयोगै समपूरयत् ॥१२॥
विजहार च सा तैस्तैः प्रयोगैर्गगनस्थिता।
पौरनारीजनोत्दमञ्चोचनान्वयदायिभिः ॥१३॥
एकदा वामवन्धायास्तस्यादघ समजायत।
हृदि विद्याधरोदारकथाश्रवणकौतुकम् ॥१४॥
ततस्तयायितो देव्या तत्र यौगन्धरायणः।
तस्या सर्वेषु गुह्यम्पु भिजगाद कथामिमाम् ॥१५॥