सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 469, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 469

४३६ कथासरित्सागर
इह शान्तिकरो नाम स्थितोऽस्माकं पुरोहितः ।
गवेषकः स जानंस्तु ववरस्तं भविष्यति ॥१२५॥
इत्युक्त्वा ब्राह्मणीमुक्तां नीत्वा रात्रिं तत्रैव ताम् ।
देवी शान्तिकरं प्रातरानाय्यापृच्छदन्वयम् ॥१२६॥
उक्तान्वयाय तस्मै च सा सञ्जातसुनिश्चया ।
इयं स भ्रातृभार्येति ब्राह्मणीं तामदर्शयत् ॥१२७॥
ज्ञातायां च परिज्ञातो ज्ञातबन्धुक्षयोऽथ सः ।
ब्राह्मणीं भ्रातृभार्यां तां निन्ये शान्तिकरो गृहम् ॥१२८॥
तत्रानुशोच्य पितरौ भ्रातरं च यथोचितम् ।
आश्वासयामास स तां बालकद्वितयान्विताम् ॥१२९॥
देवी वासवदत्तापि तस्यास्तौ बालकौ सुतौ ।
पुरोहितौ स्वपुत्रस्य भाविनः पर्यकल्पयत् ॥१३०॥
ज्येष्ठस्तयोः शान्तिसोमो नाम्ना वैश्वानरोऽपरः ।
कृतस्तथैव देव्या च वितीर्णबहुसम्पदा ॥१३१॥
अन्वस्यैवास्य लोकस्य फलभूमिः स्वकर्मभिः ।
पुरोर्गमीयमानस्य हेतुमात्रं स्वपौरुषम् ॥१३२॥
यदेत्य लब्धविभवास्तत्र सर्वेऽपि सङ्गताः ।
बालकौ तौ तयोः सा च माता शान्तिकरश्च सः ॥१३३॥
ततो गच्छत्सु दिवसेष्वेकदा पञ्चभिः सुतैः ।
सहागतामुपादाय शशवान्कुम्भकारिकाम् ॥१३४॥
दृष्ट्वा स्वमन्दिरे काञ्चिदृष्ट्या वासवदत्तया ।
सा ब्राह्मणी पिङ्गलिका जगदे पार्श्ववर्तिनी ॥१३५॥
पञ्चैतस्याः सुतोऽद्यापि नैको मे सक्ति दृश्यताम् ।
पुण्यानामीदृशां पात्रमीदृग्यपि न मादृशी ॥१३६॥
ततः पिङ्गलिकावादीद्देवि दुःखाय जायते ।
प्रजायं पापभूयिष्ठा दरिद्रेष्वेव भूयसी ॥१३७॥
युष्मादृशेषु जायत यः स कोऽप्युत्तमो भवेत् ।
तदलं त्वरया प्राप्स्यस्यचिरात्स्वोचितं सुतम् ॥१३८॥
इति पिङ्गलिकाक्तापि सोत्सुका सुतजन्मनि ।
अभूद् वासवदत्ता सा तच्चिन्तात्राण्तमानसा ॥१३९॥ -