सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 465, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 465

४२२ कथासरित्सागर
राजपुत्रोऽप्य सम्प्राप्तराज्यो लब्ध्वा गुणाधिकाम् ।
स चक्रवर्त्तितनयां भार्या भेजेऽपरां धियम् ॥९६॥
तदित्थं साहसं स्त्रीणां हृदयं वज्रकर्कशम् ।
सत्त्वं साध्वसावगसम्पाते पुण्यपलभ्यम् ॥९७॥
तास्तु काश्चन सद्धंशजाता मुक्ता इवाङ्गनाः ।
या सुवृत्ताच्छहृदया यान्ति भूपणतां भुवि ॥९८॥
हरिणीव च राजश्रीरेव विप्लुविनी सदा ।
धयपातन घटु च तामेके जानत बुधाः ॥९९॥
तस्मादापद्यपि त्याज्यं न सत्त्वं सम्यगेविभिः ।
अयमेवात्र वृत्तान्तो ममात्र च निदर्शनम् ॥१००॥
यन्मया विवुरेऽप्यस्मिंश्चारित्रं देवि ! रक्षितम् ।
युष्मद्दर्शनकल्याणप्राप्त्या तत्फलितं हि मे ॥१०१॥
इति तस्या मुखाच्छ्रुत्वा ब्राह्मण्यास्तत्क्षणं कथाम् ।
देवी वासवदत्ता सा सादरा समचिन्तयत् ॥१०२॥
ब्राह्मणी कुलवत्येषा ध्रुवमस्या ह्युदारताम् ।
भङ्क्तिं स्वशीलोपशपं वज्रप्रौढिश्च शंसति ॥१०३॥
राजसत्प्रभवेणास्या भावीष्यन्वत एव च ।
इति सञ्चिन्त्य देवी तां ब्राह्मणीं पुनरब्रवीत् ॥१०४॥
भार्या त्वं कस्य को वा ते वृत्तान्तः कथ्यतां त्वया ।
तच्छ्रुत्वा ब्राह्मणी भूयः साथ वक्तुं प्रचक्रमे ॥१०५॥
पिङ्गलिकाया आत्मकथा
मालवे ऽस्ति धात्र्यागीदग्निदत्त इति द्विजः ।
निष्प्रयो धीमरस्तथ्यो स्वयमाप्तमनोरथेष्वि ॥१०६॥
तस्य च स्यानुरुणो द्वावालश्री शनयो क्रमात् ।
ज्येष्ठः पतुर्दत्ताख्या नाम्ना शान्तिवरस्ततः ॥१०७॥
तया शान्तिवरस्तस्माद् विद्यार्थी स्वपितुर्गृहात् ।
स बाल एव निर्गत्य गतः काश विद्याथिने ॥१०८॥
चिन्तयन्तः स तद्‌भ्राता ज्येष्ठो मां परिणायतवान् ।
अनयोर्यशसाऽनल्प महायभूतसम्पदा ॥१०९॥