कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 463, कुल 876 में से
संदर्भ में पढ़ें४२० कथासरित्सागर
इत्यालोच्य स तां भार्यामुपेक्षत सकामुकाम् ।
मत्वा गुरु भिगोप्ये हि चेतसि स्त्रीत्वम् कियत् ॥८१॥
तत्कालं च रतावेगवशात्तस्याः किलापतत् ।
वणिक्सुतायाः श्रवणात् समुक्तानयं विभूषणम् ॥८२॥
तच्च सा न ददर्शैव सुरतान्ते च सत्वरा ।
ययौ यथागतं गेहमापुंश्च्योपपति स्ततः ॥८३॥
तस्मिन्नपि गते क्वापि द्रुतं प्रच्छन्नकामुके ।
स राजपुत्रो दृष्ट्वा तद्रत्नमाभरणमग्रहीत् ॥८४॥
स्फुरद्रत्नशिखाजाल भान्त्रा मोहतमोपहम् ।
हस्तदीपमिव दत्तं प्रनष्टस्त्रीयवेषणे ॥८५॥
महार्हं च तदालोक्य राजपुत्रः स तत्क्षणम् ।
निर्गत्य सिद्धकार्यः सन्कान्यकुब्जं ततो ययौ ॥८६॥
तन्न बन्धाय दत्त्वा तत्स्वर्गसक्षेण भूषणम् ।
क्रीत्वा हस्त्यश्वमगमत्स पार्श्वं चक्रवर्तिनः ॥८७॥
तद्दत्तेन बले साकमत्य हत्वा रिपून् रणे ।
प्राप तत्पैतृकं राज्यं कृती मात्रामिनन्दितः ॥८८॥
तन्न बन्धाद् विनिर्मोक्ष्य भूषणं स्वश्वशुरान्तिकम् ।
प्राहिणोत् प्रकटीकर्त्तुं रहस्यं तदधङ्कितम् ॥८९॥
सोऽपि तच्छ्वशुरो दृष्ट्वा स्वसुताकर्णभूषणम् ।
तत्तमोपागतं तस्मै सम्भ्रान्तं समदर्शयत् ॥९०॥
सापि पूर्वपरिभ्रष्टं चारित्रमिव वीक्ष्य तत् ।
बुद्ध्वा च भर्त्रा प्रहितं व्याकुलञ्च समस्मरत् ॥९१॥
इव मे पतिन तस्यां रात्रौ सत्रगृहान्तरे ।
यस्यां सत्र स्थितो दृष्टः स कोऽपि पथिको मया ॥९२॥
तन्नूनं सोऽत्र भर्त्ता मे धीमन्विज्ञामयाययौ ।
मया तु न म विज्ञातस्तनेदं प्रापि भूषणम् ॥९३॥
इत्येवं धिग्तयस्त्यान्यं पुर्नयव्यक्तिविह्वलम् ।
वणिक्सुताया हृदयं तस्याः कातरमस्फुटत् ॥९४॥
ततस्तस्या रहस्यज्ञां पृष्ट्वा चटीं स्वयुक्तिभिः ।
तत्पिता स वणिग्बुद्ध्या तत्त्वं तत्पात्र तज्जुदुपम् ॥९५॥