सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 461, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 461

४१८ कथासरित्सागर
तत्पार्श्वं व्रज राज्यं ते साधयिष्यति वत्स सः।
इत्युक्तः स तथा मात्रा राजपुत्रो जगाद ताम् ॥६६॥
तत्र मां निष्परिकरं गतं को बहु मन्यते।
तच्छ्रुत्वा पुनरप्येवं सा माता तमभाषत ॥६७॥
श्वशुरस्य गृहं गत्वा त्वं हि प्राप्य ततो धनम्।
कृत्वा परिकरं गच्छ निकटं चक्रवर्तिनः ॥६८॥
इति स प्रेरितो मात्रा सल्लज्जोऽपि नृपात्मजः।
क्रमादतस्थे सायं च प्राप तच्छ्वशुरं गृहम् ॥६९॥
पितृहीनो विनष्टश्रीर्बाष्पपाताभिशङ्कया।
अकाले नाशकच्चात्र प्रवेष्टुं लज्जया निशि ॥७०॥
निकटे सत्रशालायां स्थितः श्वशुरमन्दिरात्।
नक्तं रज्ज्वावरोहन्तीमकस्मात्स्त्रियमैक्षत ॥७१॥
क्षणाच्च भार्यां स्वामेव तां रत्नद्युतिभास्वराम्।
उल्कामिवाभ्रपतितां परिज्ञायाभ्यतप्यत ॥७२॥
सा तु तं धूसराङ्गं दृष्ट्वाप्यपरिजानती।
कोऽसीत्यपृच्छत्तच्छ्रुत्वा पान्थोऽहमिति सोऽब्रवीत् ॥७३॥
ततः सा सत्रशालान्तः प्रबिवेश वणिक्सुता।
अन्वगाद्राजपुत्रोऽपि स तां गुप्तमवेक्षितुम् ॥७४॥
सा चात्र पुरुषं कञ्चिदुपागात्कुप्योऽपि ताम्।
त्वं चिरेणागतासीति पादघातैरताडयत् ॥७५॥
ततः सा द्विगुणीभूतरागा पापा प्रसाद्य तम्।
पुरुषं तेन सहिता तत्र तस्थौ यदृच्छया ॥७६॥
तद्दृष्ट्वा तु स सुप्रभो राजपुत्रो व्यचिन्तयत्।
कोपस्यायं न कालो मे साध्यमन्यद्धि वर्तते ॥७७॥
अथ च प्रसरञ्चेत्तच्छन्नं दूषणयोर्द्वयोः।
धनुर्योग्यः स्त्रियामस्यामस्मिन्वा नृपशौ मम ॥७८॥
किमेतया सुबध्वा वा शूरयमतद्धि दुर्विधः।
मल्लर्याकोशमक्रोडानेपुष्य दुःस्तनपिनः ॥७९॥
अतुल्यकुलसम्बन्धं मया किं वापराध्यति।
भूरन्धा बलिभुजं काकी कोकिलं रमतं वधम् ॥८०॥