सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 459, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 459

४१६ कथासरित्सागर
समाश्वस्ता च सा युक्त्या कथाञ्चाप परीक्षतुम्।
क्षणान्तर निजगदे देव्या वासवदत्तया ॥५२॥
भो ब्राह्मणि ! कथा काचित्त्वया मः कथ्यतामिति ।
सम्परक्षा सा तथेत्युक्त्वा कथां वक्तु प्रचक्रम ॥५३॥
राजः देवदत्तस्य तद्भार्यायाश्च कथा
पुराभूज्जयदत्ताख्यः सामान्य कोऽपि भूपतिः ।
देवदत्ताभिधानश्च पुत्रस्तस्योदपद्यत ॥५४॥
यौवनस्थस्य तस्याथ विवाहं तनयस्य सः ।
विधातुमिच्छन्नृपतिर्मेक्षमानित्त्यचिन्तयत् ॥५५॥
वेश्येव बलवद्भोग्या राजश्रीरतिचञ्चला ।
वणिजां तु कुलस्त्रीव स्थिरा लक्ष्मीरनन्यगा ॥५६॥
तन्माद् विवाहं पुत्रस्य करोमि वणिजां गृहात् ।
राज्येऽस्य बहुदायादे यन नापद् भविष्यति ॥५७॥
इति निश्चित्य पुत्रस्य कृते वव्रे स भूपतिः ।
वणिजो वसुदत्तस्य कन्यां पाटलिपुत्रकात् ॥५८॥
वसुदत्तोऽपि स ददौ श्लाघ्यसम्बन्धवाञ्छया ।
दूरदेशान्तरञ्ज्यस्मै राजपुत्राय तां सुताम् ॥५९॥
पूरयामास च तथा रत्नजर्मास्तर स तम्।
मगलद्धहुमानोऽस्य यया स्वपितृवैभवं ॥६०॥
अवाप्ताढ्यवणिकपुत्रीसहितेनाथ तेन सः ।
तनयेन समं तस्थौ जयदत्तनृप सुखम् ॥६१॥
एकदा तत्र चागत्य सोत्क सम्बन्धिसद्मनि ।
स वणिग्वसुदत्तस्तां निनाय स्वगृहं सुताम् ॥६२॥
ततोऽकस्मात्स नृपतिर्जयदत्तो दिवं ययौ ।
उपभूय गोत्रजैस्तस्य तच्च राज्यमधिष्ठितम् ॥६३॥
तद्भीत्या तस्य तनयो जनन्या निजया मिलि ।
देवदत्तस्तु नीतोऽभूदन्यदेशमरक्षितः ॥६४॥
सत्राहु राजपुत्रं तं माता दुःखितमानसा ।
देवोऽस्ति चक्रवर्ती न प्रभुः पूर्वदिगीश्वरः ॥६५॥