कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 443, कुल 876 में से
संदर्भ में पढ़ें४०२ कथासरित्सागर
तथेति निर्गतं तं च फलभूतिं बहिस्तदा ।
एत्य चन्द्रप्रभो नाम राज्ञः पुत्रोऽब्रवीदिदम् ॥२०३॥
अनेन शीघ्रं हेम्ना मे कारयाद्यैव कुण्डल ।
यादृशं भवता पूर्वमार्य ! तातस्य कारिते ॥२०४॥
इत्युक्तो राजपुत्रेण फलभूतिस्तदैव सः ।
कृतानुरोधः प्रहितो ययौ कुण्डलयोः कृते ॥२०५॥
राजपुत्रोऽप्यगात्त्वरं वञ्चितं फलभूतिना ।
राजादेशं गृहीत्वा समकाक्येव महानसम् ॥२०६॥
तत्रोक्तराजादेशं तं स्थितसंवित् स सूपकृत् ।
राजपुत्रं छुरिकया सद्यः साहसिकोऽवधीत् ॥२०७॥
तन्मांसैः साधितं शेनं भोजनं च कृतार्घनो ।
अभुञ्जातामजानन्तौ तत्त्वं राज्ञी नृपस्तथा ॥२०८॥
नीत्वा च सानुतापस्तां रात्रिं राजा ददर्श सः ।
प्राप्तं कुण्डलहस्तं तं फलभूतिमुपागतम् ॥२०९॥
विभ्रान्तः कुण्डलोद्देशात् च पप्रच्छ तत्क्षणम् ।
तेनाख्यातस्ववृत्तान्तं पपात च भुवस्तले ॥२१०॥
'हा पुत्रेति' च चक्रन्द निन्दन् भार्यां सहात्मना ।
पृष्टश्च सचिवैः सर्वं यथातत्त्वमवर्णयत् ॥२११॥
उवाच चेतदुक्तं सत्यमेतद् फलभूतिना ।
भद्रकृत् प्राप्नुयाद् भद्रमभद्रं पाप्यभद्रकृत् ॥२१२॥
कन्दुको भित्तिनिक्षिप्त इव प्रतिफलन्मुहुः ।
आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः ॥२१३॥
पापाचारेयं दस्याभिर्वृद्धाहृत्या चिकीर्षभिः ।
स्वपुत्रघातनं कृत्वा प्राप्तं सन्मांसभक्षणम् ॥२१४॥
इत्युक्त्वा बोधयित्वा च मन्त्रिणः स्वानथोमुलाम् ।
तमद्य फलभूतिं च निज राज्येऽभिषिच्य सः ॥२१५॥
राजा प्रदत्तदानः सत्तपुत्रः पापशुद्धये ।
सभायः प्रविवेशाग्निं दग्धोऽप्यनुशयाग्निना ॥२१६॥
फलभूतिश्च तद्राज्यं प्राप्य पृथ्वीं शशास सः ।
एवं भद्रमभद्रं वा कृतमात्मनि कल्प्यते ॥२१७॥