सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 435, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 435

१६४ कथासरित्सागरे
तत्रावतार्य हर्म्ये सा मन्त्रत शाकवाटकम्‌१ ।
गत्वा श्मशाने चिक्रीड डाकिनीचक्रमध्यगा ॥१४२॥
सत्वाण च शुषात्रास्तं शाकवाटेऽवतीय सः ।
तत्र सुन्दरकदचकं वृत्तिमूलाठमूलकं ॥१४३॥
कृतक्षुत्प्रतिघातेऽस्मिन्प्राग्वद् गोबाटमाथिते ।
प्रत्ययायौ कालरात्री रात्रिमध्ये निकेतनात् ॥१४४॥
सतोऽधिरूढगोबाटा पूर्ववन्मन्त्रसिद्धितः ।
आकाशेन सक्षिप्या सा निधि स्वगृहमाययौ ॥१४५॥
स्वापयित्वा यथास्थानं तच्च गोबाटवाहनम् ।
विसृज्यानुचरीस्ताश्च शय्यावश्म विवेश सा ॥१४६॥
सोऽपि सुन्दरको नीत्वा तां निशां बिघ्नविस्मितः ।
प्रभाते त्यक्तगोबाटो निकटं सुहृदां ययौ ॥१४७॥
तत्राख्यातस्ववृत्तान्तो विषद्यगमनोन्मुखः ।
तै समाश्वासितो मित्रैस्तन्मध्य स्थितिमग्रहीत् ॥१४८॥
उपाध्यायागृहं त्यक्त्वा मुञ्जानो सत्रसद्मनि ।
उवास तत्र विहरन् स्वच्छन्दं सखिभिः सह ॥१४९॥
एकदा निर्गता क्रेतुं गृहोपकरणानि सा ।
ददर्श स सुन्दरकं कालरात्रिः किलापणे ॥१५०॥
उपेत्य च जगादैनं पुमरेव स्मरातुरा ।
मज सुन्दरकाद्यापि मां त्वदायत्तजीविताम्‌ ॥१५१॥
एवमुक्तस्तया सोऽय साधु सुन्दरकोऽब्रवीत्‌ ।
मैव वादीनं धर्मोऽय माता मे गुरुपत्न्यसि ॥१५२॥
ततोऽब्रवीत्कालरात्रिधमं चब्रुवेरिस वेहि तत्‌ ।
प्राणामे प्राणदानाद्धि धर्मं कोऽम्यधिको भवत् ॥१५३॥
अथ सुन्दरकोऽब्रावीन्मातर्मैव वृथा हृदि ।
गुरुन्स्याभिगमनं कुत्र धर्मो भविष्यति ॥१५४॥
एव निराकृता तेन तजयन्ती च तं रुषा ।
पाटयित्वा स्वहस्तेन स्वोत्तरीयमगाद् गृहम् ॥१५५॥
पश्य सुन्दरकेणैव धाविन्जा पाटितं मम ।
इत्युवाच पतिं तत्र दर्शयित्वोत्तरीयक्म् ॥१५६॥
१ शाकवाटकः = शाकस्थितिस्यानम् ।