कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 425, कुल 876 में से
संदर्भ में पढ़ें१८४ कथासरित्सागर
अनुमेने च कामस्य जन्म पत्नि देहिनाम्।
सङ्गविच्छेङ्करस्यार्थममूर्त्संन्यैव तद्गिरा ॥७०॥
ददौ च निजचित्तेऽपि सोऽवकाशं मनोभुवः ।
तेन तुष्टो ययौ धाता मुदं पाप च पार्वती ॥७१॥
ततो यातेषु दिवसेष्वेकदा रहसि स्थितः ।
सिषेवे सुरतक्रीडामुमया सह शङ्करः ॥७२॥
कुमारसम्भवकथा
यदा नाभूद्रतस्तोष्य गतष्वब्दशतेष्वपि ।
तदा तदुपमर्देन चकम्पे भुवनत्रयम् ॥७३॥
ततो जगन्नाशभयाद्रतविघ्नाय धूर्जतेः ।
वह्निं स्मरन्ति स्म सुराः पितामहनिदेशतः ॥७४॥
सोऽप्यग्निः स्मृतमात्रः सन्नभ्युपेत्य मदनान्तकम्।
मत्वा पलाय्य तैर्भ्यः प्रविवेश जलान्तरम् ॥७५॥
तत्तेजोदह्यमानाश्च तत्र भेका दिवौकसाम् ।
विचिन्वतां शशंसुस्तमग्निमन्तर्जलस्थितम् ॥७६॥
ततस्ताननभिव्यक्तवाचः शापेन तत्क्षणम् ।
मकान्कृत्वा तिरोभूय भूयोऽग्निमन्वर ययौ ॥७७॥
तत्र तं कोटरान्तस्थं देवाः शम्बूकरूपिणम् ।
प्रापुगशकाख्यातं स कयां दर्शनं ददौ ॥७८॥
कृत्वा जिह्वाविपर्यास शापेन शुकदन्तिनाम् ।
प्रविपेदे च देवानां स कायं तैः कृतस्तुतिः ॥७९॥
गत्वा च स्वोष्मणा सोऽग्निनिवार्य सुरताच्छिवम् ।
पापभीरया प्रणम्यास्र देवकार्यं व्यबवयत् ॥८०॥
शर्वोऽप्यारूढवेगोऽसौ तस्मिंस्वीयं स्वभावधे ।
तद्वि धारयितुं शक्तो न वह्निर्नाम्बिकापि वा ॥८१॥
न मया तनयस्त्वत्तः सम्प्राप्त इति भाविनीम् ।
खेदकोपाकुलां देवीमित्युवाच ततो हरः ॥८२॥
विघ्नोऽत्र तव जातोऽयं विना विघ्नेशपूजनम् ।
तदद्यम येनाशु बहुलो नो जनिता सुतः ॥८३॥