कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 41, कुल 876 में से
संदर्भ में पढ़ेंप्रणिधानादथ ज्ञात्वा जगादेदमुमापतिः।
भोगी भूत्वा प्रविश्येमां पुष्पदन्तस्तथाश्रुणोत् ॥५५॥
पुष्पदन्तं प्रति पार्वतीशाप
जयाय वर्णितं तन्न कोऽन्यो जानाति हे प्रिय !
श्रुत्वेत्यानामयद् देवी पुष्पदन्तमिति क्रुधा ॥५६॥
मर्त्यो भवाविनीतेति विह्वल तं शशाप सा।
माल्यवन्तं च विज्ञप्तिं कुर्वाणं तत्कृते गणम् ॥५७॥
शापान्तकथनम्
निपत्य पादयोस्ताभ्यां जयया सह बोधिता।
शापान्तं प्रति शर्वाणी शनैर्वचनमब्रवीत् ॥५८॥
विन्ध्याटव्यां कुबेरस्य शापात्प्राप्त पिशाचताम्।
सुप्रतीकाभिधो यक्षः काणभूत्याख्यया स्थितः ॥५९॥
तं दृष्ट्वा संस्मरन् जातिं यदा तस्मै कथामिमाम्।
पुष्पदन्त ! प्रवक्तासि तदा शापाद् विमोक्ष्यसे ॥६०॥
काणभूतः कथां तां तु यदा श्रोष्यति माल्यवान्।
काणभूतो तदा मुक्तो कथां प्रख्याप्य मोक्ष्यसे ॥६१॥
इत्युक्त्वा शूलतनया व्यरमत्तो च तत्क्षणात्।
विद्युन्मुच्छाविव गणौ दृष्टनष्टौ बभूवतुः ॥६२॥
अथ जातु माति काले गौरी पप्रच्छ शङ्करं सख्या।
देव मया तौ शप्तौ प्रमथवरौ कुत्र भुवि जातौ ॥६३॥
अवदच्च चन्द्रमौलिः शोभावत्यस्ति या महानगरी।
तस्यां स पुष्पदन्तो वररुचिनामा प्रिय ! जातः ॥६४॥
अन्यश्च माल्यवानपि नगरवरे सुप्रतिष्ठिताख्ये सः।
जातो गुणाढ्यनामा देवि ! तयाऽप्य वृत्तान्त ॥६५॥
एव निशम्य स विभु गतानुवृत्तं
मूरपावमाननं विभावन-सानुतापाम्।
चम्पकताल-तट-वलयित कल्पवल्ली
ऽऽशागृहषु दयितां रमयाञ्चकार ॥६६॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके
प्रथमस्तरङ्गः।