कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 409, कुल 876 में से
संदर्भ में पढ़ें१६८ कथासरित्सागर
तन्मुखेनैव राज्ञश्च ब्रह्मदत्तस्य पृच्छतः ।
सोऽभूत्तमं रहस्यस्य प्राप्ते वत्सेशाविग्रहे ॥७९॥
अथास्य ब्रह्मदत्तस्य मन्त्री योगकरण्डकः ।
चकार वत्सराजस्य व्याजानागच्छतः पथि ॥८०॥
अदूपयत्प्रतिपथं विषादिद्रव्ययुक्तिभिः ।
वृक्षान् कुसुमवल्लीश्च तोयानि च तृणानि च ॥८१॥
विदधे विषकन्याश्च सन्त्य पन्थविलासिनीः ।
प्राहिणोत्पुरुषांश्चैव निद्रासु च्छद्मघातिनः ॥८२॥
तच्च विज्ञाय स शान्तिलिङ्गी चारो न्यवेदयत् ।
यौगन्धरायणायाशु स्वसहायमुखस्तदा ॥८३॥
यौगन्धरायणोऽप्येतद् बुद्ध्वा प्रतिपदं पथि।
दूषितं तृणतोयादि प्रतियोगैरशोधयत् ॥८४॥
अपूर्वस्त्रीसमायोगं कटके निषिषेध च।
अबधीद् वधकांस्तांश्च स्तब्धा सह समन्त्रता ॥८५॥
तद्बुद्ध्वा ध्वस्तमायं सन् सैन्यपूरितदिक्मुखम् ।
वत्सेश्वरं ब्रह्मदत्तो मेने दुर्जयमेव तम् ॥८६॥
सुमन्त्र्य दत्त्वा दूतं च शिरोविरचिताञ्जलिः ।
ततः स निकटीभूतं वत्सेशं स्वयमभ्यगात् ॥८७॥
वत्सराजोऽपि तं प्राप्तं प्रवृत्तोपायनं नृपम् ।
प्रीत्या सम्मानयामास शूरा हि प्रणतिप्रियाः ॥८८॥
वत्सराजस्य दिग्विजयकथा
इत्थं तस्मिञ्जिते प्राचीं शमयन्नमयन् भूभून् ।
उन्मूल्यंश्च कठिनांश्चापात्यायुरिव द्रुमान् ॥८९॥
प्राप च प्रबलं प्राच्यं चलद्वीचीविघूर्णितम् ।
वङ्गावजयविभ्रासबपमाममिवाम्बुधिम् ॥९०॥
तस्य वेलातटान्तं च जयस्तम्भं चकार सः ।
पातालामययाच्छीर्षं नागराजमिवोद्गतम् ॥९१॥
१ तुलना कार्या—
वङ्गानूत्खाय तरसा नेता नौ साधनोद्यतान्।
निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः॥
—रघुवंशे, ४ सर्गे।