कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 407, कुल 876 में से
संदर्भ में पढ़ें३३३ कथासरित्सागर
प्राप्तया सिद्धिरूत्येव शरदा दत्तसंभवः ।
दर्शयन्त्यातिसुगमं मार्गं स्वल्पाम्बुनिम्नगम् ॥६४॥
पूरयन्बहुनादाभिर्वाहिनीभिर्भुवस्तलम् ।
कुर्वन्नकाण्ड निर्बन्ध-वर्षा-समय-सम्भ्रमम् ॥६५॥
तदा स सैन्य-निर्घोष प्रतिशब्दकुलीकृताः ।
परस्परमिवान्वस्युस्तदागमभय दिशः ॥६६॥
ववृधुश्च हेमसन्नाहसम्भूतार्कप्रभा हयाः ।
तस्य नीराजनप्रीतपावकानुगता इव ॥६७॥
विरेजुर्वारणाश्चास्य सितध्वजचामराः ।
विगलद्गण्डसिन्दूरशोणदानजला पथि ॥६८॥
शरत्पाण्डुपयोवाहाः सधातुरसनिर्झराः ।
यात्रामुप्रेषिता भीतेरारभञ्जा इव भूधरैः ॥६९॥
नैवैष राजा सहते परेषां प्रसृतं महः ।
इतीव तच्छमूरणूरुकंतेजस्तिरोदधे ॥७०॥
पद्मातपत्रं च द्वे देव्यौ मार्गे समभिजग्मतुः ।
नृपं नयगुणाकृष्टे इव कीर्तिजयश्रियौ ॥७१॥
नमन्ताप पलायध्वमित्यूचु विन्ध्यपामिव ।
पवनाक्षिप्तविक्षिप्तैस्तस्य सन्नाहजांशुकेः ॥७२॥
एवं ययौ स दिग्भागान् पश्यन् फुल्लसिताम्बुजान् ।
महीमर्यमयोद्भ्रान्तक्षपोत्क्षिप्तफणानिव ॥७३॥
अत्रान्तरे च ते चारा धृतकापालिकव्रताः ।
योगन्धरायणादिष्टाः प्रापुर्वाराणसीं पुरीम् ॥७४॥
तेषां च कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन् ।
सिद्ध्यि गुप्तोऽभवद्गोपास्तच्छिष्यतां ययुः ॥७५॥
आचार्योऽयं त्रिकालज्ञ इति व्याजह्रुश्च तम् ।
शिष्यास्ते स्थापयामासुर्भिक्षाक्षममितस्ततः ॥७६॥
यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् ।
तच्छिष्यास्तत्तथा गुप्तं चक्रुस्तेन स पप्रथे ॥७७॥
रञ्जितं शुभ्रविद्यया च समग्रं नृपलक्षणम् ।
स्वीचक्रे स ह्यमप्येकं राजपुत्रमुपागतम् ॥७८॥