कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 405, कुल 876 में से
संदर्भ में पढ़ें१६४ कथासरित्सागर
वत्सराजस्य दिग्विजयप्रस्थानम्
इत्थं धर्मार्जिता लक्ष्मीरा सन्तत्यनपायिनी।
इतरा तु जरापाततुषारकणनश्वरी ॥५०॥
अतो यतेत धर्मेण धनमर्जयितुं पुमान्।
राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ॥५१॥
तस्माद्यथावत्सम्मान्य सिद्धये मन्त्रिमण्डलम्।
कुरु दिग्विजयं देव लब्धुं धर्मोत्तरां श्रियम् ॥५२॥
श्वशुरद्वयबन्धूनां प्रसक्तानुप्रसक्तितः।
विकुर्वत न बहवो राजानस्ते मिलन्ति च ॥५३॥
यस्त्वेव ब्रह्मदत्ताख्यो वाराणस्यां महीपतिः।
नित्यं वैरी स ते तस्माद् विजयस्व तमग्रतः ॥५४॥
तस्मिञ्जिते जय प्राचीप्रक्रमणाखिला दिशः।
उन्ने कुरुष्व वै पाण्डोर्यशश्च कुमुदोज्ज्वलम् ॥५५॥
इत्युक्तो मन्त्रिमुख्येण तथेति विजयोद्यतः।
वत्सराजः प्रकृतिषु प्रयाणारम्भमादिशत् ॥५६॥
ददौ च चेदिदेशं च राज्यं गोपालकाय सः।
सत्कारहृष्टोऽनुपतिः स्वश्वशुर्यमानुगच्छते ॥५७॥
त्रिं च पद्मावतीभ्रात्रे प्रायच्छत्सिंहवर्मणे।
सम्मान्य चविविद्यय सर्वै सममुपेयुषे ॥५८॥
आनाययच्च स विभुर्भिल्लराजं पुलिन्दकम्।
मित्रं बलैर्व्याप्तदिशं प्रावृट्कालमिवाम्बुदः ॥५९॥
अभूच्च यात्रारम्भो राष्ट्रे तस्य महाप्रभोः।
आकुलस्य तु शत्रूणां हृदि चित्रमजायत ॥६०॥
योगन्धरायणश्चाथ वारान्ताराणसीं प्रति।
प्राहिणोद् ब्रह्मदत्तस्य राज्ञो ज्ञातुं विचेष्टितम् ॥६१॥
ततः शुभेऽहनि प्रीतो निमित्तजयशंसिभिः।
ब्रह्मदत्तं प्रति प्राच्यां पूर्वं वत्सेश्वरो ययौ ॥६२॥
आरुढः प्रांशुतुङ्गाग्रं प्रोत्तुङ्गजगदुद्धरम्।
गिरि प्रफुल्लवेत्रस्तर मृगेन्द्र इव दुर्मदः ॥६३॥