सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 403, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 403

स्वभर्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् ।
स हि द्यूतरतो द्वेष्यस्त्वं तु मे परमः प्रियः ॥३६॥
तत्तत्र गत्वा मद्भर्तुः सकाशात्तद्गृहं धनैः ।
क्रीत्वा तत्प्राप्य च स्वर्णमिहैत्य भज मां सुखम् ॥३७॥
एवमुक्तः कुटिलया स तयोपपतिर्वणिक् ।
सुतोष तस्य मन्वानो निधिं लब्ध्यमयत्नतः ॥३८॥
देवदासोऽपि कुभ्रूवाक्शल्यैस्तैर्हृदिहतः ।
कीलितामिव तत्काल धनाशां हृदये दधौ ॥३९॥
जगाम च ततः सद्यः पुरं पाटलिपुत्रकम् ।
प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ॥४०॥
अथाजगाम स वणिक्त्तद्भार्याच्छन्नकामुकः ।
तमत्र ददृशे वाणिज्यव्याजान्न निधिलोलुपः ॥४१॥
देवदाससकाशाच्च क्रीणाति स्म स तद्गृहम् ।
देवदासोऽपि मूल्येन भूयसा तस्य तद्ददौ ॥४२॥
ततो गृहस्थितिं कृत्वा युक्त्या श्वशुरवेश्मनः ।
स देवदासः शीघ्रं तामानाय स्वगेहिनीम् ॥४३॥
एवं कृते च तद्भार्याकामुकः स वणिक्शठः ।
असम्पन्निधिरभ्येत्य देवदासमुवाच तम् ॥४४॥
एतद्भवद्गृहं जीर्णं मह्यं न खलु रोचते ।
तद्देहि मे निजं मूल्यं स्वगृहं स्वीकुरुष्व च ॥४५॥
इति जल्पंश्च स वणिग् देवदासश्च विब्रुवन् ।
उभौ विवादमत्तौ तौ राजाग्रेमुपजग्मतुः ॥४६॥
तत्र स्वभार्यावृत्तान्तं यदास्यविषदुःसहम् ।
देवदासो नरेन्द्राय कृत्स्नमद्गिरति स्म तम् ॥४७॥
तत्तदाभाष्य तद्भार्यां तत्त्वं चान्विच्य भूपतिः ।
अदण्डयत् सर्वस्वं वणिजं परदारिकम् ॥४८॥
देवदासोऽपि तुष्टभूः त्यक्त्वा तां क्षिप्रमागिराम् ।
अन्यां च परिणीयाथ तस्थौ लब्धनिधिः सुखम् ॥४९॥


१ वरदारामङ्गदनमन्वन्थि खण्डम् ।