कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 401, कुल 876 में से
संदर्भ में पढ़ें६६ कथासरित्सागर
शनै सोऽपि विपत्सिन्धौ स्थातुमिच्छन् स्वकर्मणि।
मत्स्यार्थी देवदासस्तं श्वशुरं याचितुं ययौ ॥२०॥
प्राप्तश्च सन्ध्यासमयं सत्पुरं पौण्ड्रवर्धनम्।
रजोरूक्ष विवस्त्र च वीक्ष्यात्मानमचिन्तयत् ॥२१॥
ईदृशः प्रविशामीह कथं श्वशुरवेश्मनि।
वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः ॥२२॥
इत्यालोक्यापणे गत्वा स क्वापि विपणेर्बहिः।
नक्तं सङ्कुचितस्तस्थौ तत्काल कमलोपमः ॥२३॥
क्षणाच्च तस्यां विपणौ प्रविशन्तं व्यलोकयत्।
युवानं वणिजं कञ्चिदुद्घाटितकवाटकम् ॥२४॥
क्षपान्तरे स तत्रैव निश्शब्दपदमागताम्।
द्रुतमन्तःप्रविष्टां च स्त्रियमेकां ददर्श सः ॥२५॥
ज्वलत्प्रदीपे यावच्च ददौ दृष्टिं तदन्तरे।
प्रत्यभिज्ञातवांस्तावत्तां निजानेव गेहिनीम् ॥२६॥
ततः सोऽङ्कितद्वारो भार्यां तामन्यगामिनीम्।
दृष्ट्वा दुःखाग्निदग्धो देवदासो व्यचिन्तयत् ॥२७॥
धनहीनेन देहोऽपि ह्रीयते स्त्रीषु का कथा।
निसर्गेनियतं वासां विद्युतामिव चापलम् ॥२८॥
सैवेयं सा विपत्सूता व्यसनार्णवपातिनाम्।
गतिः सद्यः स्वतन्त्रायाः स्त्रियाः पितृगृहे स्थितेः ॥२९॥
इति सञ्चिन्तयंस्तस्या भार्याया स बहिः स्थितः।
रतान्तविस्रम्भजुषं कथालापमिवाशृणोत् ॥३०॥
उपेत्य च ददौ द्वारि स कर्णं सापि तत्क्षणम्।
इत्यब्रवीदुपपतिं पापा सा वणिजं रहः ॥३१॥
शृण्विदं कथयाम्यद्य रहस्यं तेऽनुरागिणी।
मद्दर्त्तुर्वीरवर्मस्य पुराऽभूत्प्रपितामहः ॥३२॥
स्वगृहस्याङ्गणं तेन चत्वारः स्वर्णपूरिताः।
कुम्भाश्चतुर्षु कोणेषु निगूढा स्थापिता भुवि ॥३३॥
तवेकस्याः स्वभार्यायाः स चक्रे विदितं तदा।
तद्भार्या चान्तकाले सा स्नुषायै तदबोधयत् ॥३४॥
सापि स्नुषायै मञ्छ्वश्र्वै मञ्छ्वशूरोब्रवीच्च मे।
इत्ययं मत्पतिगृहस्यैष बभूवक्रममुपागतम् ॥३५॥