कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 399, कुल 876 में से
संदर्भ में पढ़ें१५८ कथासरित्सागर
ततस्तं सह देवीभ्यां सचिवैश्च तपःस्थितम्।
त्रिरात्रोपोषितं भूपं शिवः स्वप्ने समादिशत् ॥६॥
तुष्टोऽस्मि ते समुत्तिष्ठ निर्विघ्नं जयमाप्स्यसि।
सर्वविद्याधराधीशं पुत्रं धवाचिरादिति ॥७॥
ततः स बुबुधे राजा तत्प्रसादाद्धतक्लमः।
अर्कांशुश्वसिताप्यायि प्रतिपच्चन्द्रमा इव ॥८॥
आनन्दयच्च सचिवानां प्रातः स्वप्नेन तेन सः।
व्रतोपवासक्लान्ते च देव्यौ द्वे पुष्पकोमले ॥९॥
तत्स्वप्नश्रवणेनैव श्रोत्रपेयेन तृप्तयोः।
तयोश्च विमलावाव जात: स्वास्थ्योपचक्रमः ॥१०॥
लेभे स राजा तपसा प्रभावं पूर्वजैः समम्।
पुण्यां पतिव्रतानां च तत्पत्न्योः कीर्तिमापतुः ॥११॥
उत्सवव्यग्रपौरैश्च विहितव्रतपारणः।
यौगन्धरायणोऽन्यद्युरिति राजानमब्रवीत् ॥१२॥
धन्यस्त्वं यस्य चैवेत्थं प्रसन्नो भगवान् हरः।
तदिदानीं रिपून् जित्वा भज लक्ष्मीं भुजार्जिताम् ॥१३॥
सा हि स्वकर्मसम्भूता भूभृतामन्वये स्थिरा।
निजधर्माजितानां हि विनाशो नास्ति सम्पदां ॥१४॥
तथा च चिरभूमिष्ठो निधिः पूर्वजसम्भृतः।
प्रनष्टो भवता प्राप्तः किं चात्रेतां कथां शृणु ॥१५॥
देवदासवैश्यस्य कथा
बभूव देवदासाख्यः पुरे पाटलिपुत्रके।
[L24: पुरा कोऽपि वणिक्पुत्रो महाधनकुलोद्गतः ॥१६॥
अभवत्तस्य भार्या च नगरात् पौण्ड्रवर्धनात्।
परिणीता समृद्धस्य कस्यापि वणिजः सुता ॥१७॥
गते पितरि पञ्चत्वं क्रमेण व्यसनान्वितः।
स देवदासो द्यूतेन सर्वं धनमहारयत् ॥१८॥
ततश्च तस्य सा भार्या दुःसवाद्दारिद्र्यदुःखिता।
एरयं नीता निजं गृहं स्वपित्रा पौण्ड्रवर्धनम् ॥१९॥