कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 393, कुल 876 में से
संदर्भ में पढ़ें१५२ कथासरित्सागर
समालम्ब्य भवरत्नहमारुह्य प्रागसदायान् ।
सुबहुनागतोऽस्मीह किमन्यद् वच्मि सुन्दरि ! ॥३७३॥
सञ्छ्रुत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम्।
प्रीतिं काष्ठागतस्नेहा सा भद्रा समभाषत ॥३७४॥
आर्यपुत्र न मे कार्य सखीभिन च सिद्धिभिः।
त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ! ॥३७५॥
विदूषकस्ततोऽवादीत्तार्हगच्छ मया सह।
मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये॥३७६॥
तथेति प्रतिपन्ने सा भद्रा सपदि तद्गृहम्।
तरङ्गुल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ॥३७७॥
ततस्तया समं सद्यं स विशद्याम तां निशाम्।
क्लप्तोपचारस्तत्सख्या योगेश्वर्या विदूषक ॥३७८॥
प्रातश्च भद्रया साकमवतीर्योदयाद्रितः।
सस्मार यमदंष्ट्रं तं राक्षसं स पुन कृती ॥३७९॥
स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम्।
सस्याऽऽरोह स स्कन्धे भद्रामारोप्य तां पुरः॥३८०॥
सापि सेहे तवत्युग्रराक्षसांसाधिरोहणम्।
अनुराग-परायत्ता कुर्वते किं न योषितः ॥३८१॥
रक्षोऽधिरूढश्च तत स प्रतस्थे प्रियासखः।
विदूषकः पुनः प्राप तच्च कार्कोटक पुरम् ॥३८२॥
रक्षोदर्शनसंत्रास तत्र व्यालोकितो जनः।
दृष्ट्वायमर्त्तनृपतिं स्वां भार्यां मार्गति स्म च ॥३८३॥
दत्तां तेम गृहीत्वा च तत्सुतां तां भुजङ्गिताम्।
तश्व राक्षसास्कन्धः स प्रतस्थे पुरातनः ॥३८४॥
गत्वाम्बुधेस्तटे प्राप पापं तं वणिजं च सः।
यनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ॥३८५॥
जहार तस्य च सुतां वणिजः स धनेः सह।
प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ॥३८६॥
धनापहारमेवास्य वधं मेने च पाप्मनः।
कवर्त्तणां पुरे प्राप्ता प्रायण प्रार्थसञ्चयाः ॥३८७॥