कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 387, कुल 876 में से
संदर्भ में पढ़ें१४५ कथासरित्सागर
ददर्श राजकन्यां च साक्षात्कृत्यानुरागिणीम् ।
नराक्ष्यदुःखबिधुरं पश्यन्तीं सालसां दृशा ॥१२८॥
आसीच्च जागद्देवान्न स रात्राववलोकयन् ।
करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ॥१२९॥
अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् ।
छिन्नदक्षिणबाहुत्वात् प्रसारितभुजान्तरम् ॥१३०॥
दृष्ट्वा व्यचिन्तयंश्चासो हन्त सोऽयं निशाचरः ।
यस्य बाहुर्मया छिन्नो नगरे पौण्ड्रवर्धने ॥१३१॥
तदद्य न पुनर्बाहौ प्रहरिष्याम्यसो हि मे ।
पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्म्यमुम् ॥१३२॥
इत्यालोच्य प्रधाव्यैव कचेष्वाकृष्य तस्य सः ।
राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ॥१३३॥
तत्क्षणं भीतभीतश्च समुवाच स राक्षसः ।
मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ॥१३४॥
किं नामा त्वं च केयं च तव चेष्टेति तेन सः ।
मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ॥१३५॥
यमदंष्ट्राभिधानस्य ममाभूतां सुते इमे ।
इयमेका तथान्या च पौण्ड्रवर्धनवासिनी ॥१३६॥
अधीरपुरुषासक्तारक्षणीय नृपात्मजे ।
शङ्कराज्ञा प्रसादो हि ममाभूदयमीदृशः ॥१३७॥
तत्राद्यो बाहुरेकेन छिन्नो मे पौण्ड्रवर्धने ।
त्वया चाद्य जितोस्मीह तत्समाप्तमिदं मम ॥१३८॥
तच्छ्रुत्वा स विहस्यैनं प्रत्युवाच विदूषकः ।
ममैव स भुजस्तत्र लूनस्ते पौण्ड्रवर्धने ॥१३९॥
राक्षसोऽप्यवदत्तर्हि देशांशस्त्वं न मानुषः ।
मन्ये त्वदर्थमेवाभूच्छर्वस्यानुग्रहः स मे ॥१४०॥
तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि ।
तदाहं सन्निधास्ये ते सिद्धये सङ्कटेष्वपि ॥१४१॥
एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् ।
तेनाभिनन्दितवचा यमदंष्ट्रस्तिरोदधे ॥१४२॥