कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 373, कुल 876 में से
संदर्भ में पढ़ें११२ कथासरित्सागर
ततस्तन्मातरि स्नेहात् सम्भ्रान्तायां क्रमण तत्।
बुद्ध्वा राजापि तन्प्रत्य परमाकुलतामगात् ॥२२५॥
जाने श्मशानबाह्यं तं गतोऽसौ देवतावृहम्।
इत्युक्ते राजसुतया राजा तत्र स्वयं ययौ ॥२२६॥
तत्र विद्याधरीविद्याप्रभावेण तिरोहितम्।
विचिन्त्यापि न लेभे स स क्षितीशो विदूषकम् ॥२२७॥
ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम्।
देहत्यागोन्मुखीमेत्य ज्ञानी कोऽप्यब्रवीदिदम् ॥२२८॥
नारिष्टशङ्का कर्त्तव्या स हि ते वर्तते पतिः।
युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ॥२२९॥
तच्छ्रुत्वा राजपुत्री सा धारयामास जीवितम्।
हृदि प्रविष्टया बुद्ध्या सत्वत्यागमवाञ्छया ॥२३०॥
विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम्।
भद्रां योगेश्वरी नाम सखी काचिदुपागमौ ॥२३१॥
उपेत्य सा रहस्यनामिव भद्रामथाब्रवीत्।
सखि ! मानुषसंसर्गात् क्रुद्धा विद्याधरास्त्वयि ॥२३२॥
पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया।
अस्ति पूर्वाम्बुधेः पारे पुरं कार्कोटकाभिधम् ॥२३३॥
तदतिक्रम्य च नदी शीतोदा नाम पावनी।
तीर्त्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ॥२३४॥
विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ साम्प्रतम्।
प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः ॥२३५॥
एतद्धि सर्वमेतस्य रूपयित्वा गमिष्यसि।
येनैष पश्चात्त्वमेव लब्ध्वानागमिष्यति ॥२३६॥
इत्युक्ता सा तया सख्या भद्रा भयवशीकृता।
विदूषकानुरक्तापि प्रतिपेदे तथेति तत् ॥२३७॥
उक्त्वा च तस्य सबहुप्रथा दत्त्वा च स्वाङ्गुलीयकम्।
विदूषकस्य रात्र्यन्तसमये सा तिरोबभूव ॥२३८॥
विदूषकश्च पूर्वस्मिन् शून्ये देवगृहे स्थितम्।
क्षणादपश्यदात्मानं न भद्रां न च मन्दिरम् ॥२३९॥