कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 371, कुल 876 में से
संदर्भ में पढ़ें११० कथासरित्सागर
सुप्तायां च ततस्तस्यां निभृत्यान्तःपुरान्निशि।
आदाय खड्गं स्वस्यं सस्तद्देवीभवनं ययौ ॥२१॥
प्राप्तो विदूषकोऽह्र मौरिति तत्र जपन् बहिः।
प्रविशेत्यशृणोद् वाचमन्तः केनाप्युदीरिताम् ॥२११॥
प्रविश्य चान्तरे सोऽथ दिव्यमावासमैक्षत।
तदन्तर्दिव्यरूपों च कन्यां दिव्यपरिच्छदाम् ॥२१२॥
स्वप्रभाभिन्नतिमिरं रजनिज्वलिशिखामिव।
हरकोपाग्निदग्धस्मरसञ्जीवनौषधिम् ॥२१३॥
किमेतदिति साश्चर्यं स तया दृष्टया स्वयम्।
सस्नेहबहुमानेन स्वागतेनाभ्यनन्द्यत ॥२१४॥
उपविष्टं च सञ्जातविश्रम्भं प्रम-दर्शनात्।
तत्स्वरूपपरिज्ञानसोत्सुक सा तमब्रवीत् ॥२१५॥
अह विद्याधरी कन्या भद्रा नाम महान्वया।
इह कामचरस्वाप्नं त्वामपश्यमहं तदा ॥२१६॥
त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम्।
अश्रुत्यवाणीमसृजं पुनरागमनय ते ॥२१७॥
अद्य विद्या प्रयोगाच्च सतोऽद्य प्रेरिता मया।
सा से राजसुतेवाऽस्मिन् कार्ये स्मृतिमजीजनत् ॥२१८॥
त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम्।
शरीरं सुन्दर ! मया कुरु पाणिग्रहं मम ॥२१९॥
इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः।
तथेति परिणिन्ये तां गान्धर्वविधिना तदा ॥२२ ॥
अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः।
स्वपौरुषफलब्ध्येव प्रियया सङ्गतस्समा ॥२२१॥
अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये।
भर्तारं तमपश्यन्ती विषादं सहसागमत् ॥२२२॥
उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ।
विह्वला सङ्गमवाष्पातरङ्गितविलोचना ॥२२३॥
स पतिर्मे गतः क्वापि राज्ञीविति च मातरम्।
आत्मापराधसम्भ्रान्ता सानुतापा च साब्रवीत् ॥२२४॥